आदित्यहृदयम्
Aditya Hridayam
The hymn Agastya gives Rama before the final battle, saluting Surya as the heart of all light.
Dedicated toसूर्यःततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्ट्वा युद्धाय समुपस्थितम् ॥ १
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।उपगम्याब्रवीद्राममगस्त्यो भगवानृषिः ॥ २
राम राम महाबाहो शृणु गुह्यं सनातनम् ।येन सर्वानरीन्वत्स समरे विजयिष्यसि ॥ ३
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।जयावहं जपेन्नित्यमक्षय्यं परमं शुभम् ॥ ४
सर्वमङ्गळमाङ्गल्यं सर्वपापप्रणाशनम् ।चिन्ताशोकप्रशमनमायुर्वर्धनमुत्तमम् ॥ ५
रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥ ६
सर्वदेवात्मको ह्येष तेजस्वी रश्मिभावनः ।एष देवासुरगणान्लोकान्पाति गभस्तिभिः ॥ ७
एष ब्रह्मा च विष्णुश्च शिवस्स्कन्दः प्रजापतिः।महेन्द्रो धनदः कालो यमस्सोमो ह्यपांपतिः ॥ ८
पितरो वसवस्साध्या ह्यश्विनौ मरुतो मनुः ।वायुर्वह्निः प्रजाः प्राणा ऋतुकर्ता प्रभाकरः ॥ ९
आदित्यस्सविता सूर्यः खगः पूषा गभस्तिमान् ।सुवर्णसदृशो भानुर्हिरण्यरेता दिवाकरः ॥ १०
हरिदश्वस्सहस्रार्चिस्सप्तसप्तिर्मरीचिमान् ।तिमिरोन्मथनश्शम्भुस्त्वष्टा मार्तण्ड अंशुमान् ॥ ११
हिरण्यगर्भश्शिशिरस्तपनो भास्करो रविः ।अग्निगर्भोऽदितेः पुत्रश्शङ्खश्शिशिरनाशनः ॥ १२
व्योमनाथस्तमोभेदी ऋग्यजुस्सामपारगः ।घनवृष्टिरपांमित्रो विन्ध्यवीथी प्लवङ्गमः ॥ १३
आतपी मण्डली मृत्युः पिङ्गलस्सर्वतापनः ।कविर्विश्वो महातेजा रक्तस्सर्वभवोद्भवः ॥ १४
नक्षत्रग्रहताराणामधिपो विश्वभावनः ।तेजसामपि तेजस्वी द्वादशात्मन्नमोऽस्तु ते ॥ १५
नमः पूर्वाय गिरये पश्चिमे गिरये नमः ।ज्योतिर्गणानां पतये दिनाधिपतये नमः ॥ १६
जयाय जयभद्राय हर्यश्वाय नमो नमः।नमो नमस्सहस्रांशो आदित्याय नमो नमः ॥ १७
नम उग्राय वीराय सारङ्गाय नमो नमः ।नमः पद्मप्रबोधाय मार्ताण्डाय नमो नमः ॥ १८
ब्रह्मेशानाच्युतेशाय सूर्यायादित्यवर्चसे।भास्वते सर्वभक्षाय रौद्राय वपुषे नमः ।। १९
तमोघ्नाय हिमघ्नाय शत्रुघ्नायाऽमितात्मने ।कृतघ्नघ्नाय देवाय ज्योतिषां पतये नमः ॥ २०
तप्तचामीकराभाय वह्नये विश्वकर्मणे ।नमस्तमोभिनिघ्नाय रुचये लोकसाक्षिणे ॥ २१
नाशयत्येष वै भूतं तदेव सृजति प्रभुः।पायत्येष तपत्येष वर्षत्येष गभस्तिभिः ॥ २२
एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः ।एष चैवाग्निहोत्रं च फलं चैवाग्निहोत्रिणाम् ॥ २३
वेदाश्च ऋतवश्चैव ऋतूनां फलमेव च ।यानि कृत्यानि लोकेषु सर्व एष रविः प्रभुः ॥ २४
एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च ।कीर्तयन्पुरुषः कश्चिन्नावसीदति राघव ॥ २५
पूजयस्वैनमेकाग्रो देवदेवं जगत्पतिम् ।एतत्त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि ॥ २६
अस्मिन्क्षणे महाबाहो रावणं त्वं वधिष्यसि ।एवमुक्त्वा तदाऽगस्त्यो जगाम च यथागतम् ॥ २७
एतच्छ्रुत्वा महातेजा नष्टशोकोऽभवत्तदा ।धारयामास सुप्रीतो राघवः प्रयतात्मवान् ॥ २८
आदित्यं प्रेक्ष्य जप्त्वा तु परं हर्षमवाप्तवान् ।त्रिराचम्य शुचिर्भूत्वा धनुरादाय वीर्यवान् ॥ २९
रावणं प्रेक्ष्य हृष्टात्मा युद्धाय समुपागमत् ।सर्वयत्नेन महता वधे तस्य धृतोऽभवत् ॥ ३०
अथ रविरवदन्निरीक्ष्य रामंमुदितमनाः परमं प्रहृष्यमाणः ।निशिचरपतिसङ्क्षयं विदित्वासुरगणमध्यगतो वचस्त्वरेति ॥ ३१
॥ इति श्रीमद्रामायणे आदित्यहृदयम् समाप्तम् ॥
Valmiki Ramayana, Yuddha Kanda — Aditya Hridayam
Traditional/public-domain Sanskrit text
Public-domain verse supplied for the project. The particular printed edition or transcription behind this reading is not yet recorded; add it here once confirmed.