Stotra

Shivananda Lahari

शिवानन्दलहरी

All one hundred verses of devotion, philosophy and poetic longing.

SanskritHinglishOptional meaning50 min✓ Verified text
🔱Dedicated toLord Shiva
0% read

कलाभ्यां चूडालंकृतशशिकलाभ्यां निजतपः- फलाभ्यां भक्तेषु प्रकटितफलाभ्यां भवतु मे । शिवाभ्यामस्तोकत्रिभुवनशिवाभ्यां हृदि पुन- र्भवाभ्यामानन्दस्फुरदनुभवाभ्यां नतिरियम् ॥ १ ॥

गलन्ती शंभो त्वच्चरितसरित: किल्बिषरजो दलन्ती धीकुल्यासरणिषु पतन्ती विजयताम् । दिशन्ती संसारभ्रमणपरितापोपशमनं वसन्ती मञ्चेतोह्रदभुवि शिवानन्दलहरी ॥ २ ॥

त्रयीवेद्यं हृद्यं त्रिपुरहरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम् । महादेवं देवं मयि सदयभावं पशुपतिं चिदालम्बं साम्बं शिवमतिविडम्बं हृदि भजे ॥ ३ ॥

सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् । हरिब्रह्मादीनामपि निकटभाजामसुलभं चिरं याचे शंभो शिव तव पदाम्भोजभजनम् ॥ ४ ॥

स्मृतौ शास्त्रे वैद्ये शकुनकवितागानफणितौ पुराणे मन्त्रे वा स्तुतिनटनहास्येष्वचतुरः । कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ ५ ॥

घटो वा मृत्पिण्डोऽप्यणुरपि च धूमोऽग्निरचल: पटो वा तन्तुर्वा परिहरति किं घोरशमनम् । वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा पदाम्भोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ ६ ॥

मनस्ते पादाब्जे निवसतु वच: स्तोत्रफणितौ करौ चाभ्यर्चायां श्रुतिरपि कथाकर्णनविधौ । तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे परग्रन्थान्कैर्वा परमशिव जाने परमतः ॥ ७ ॥

यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि- र्जले पैष्टे क्षीरं भवति मृगतृष्णासु सलिलम् । तथा देवभ्रान्त्या भजति भवदन्यं जडजनो महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ ८ ॥

गभीरे कासारे विशति विजने घोरविपिने विशाले शैले च भ्रमति कुसुमार्थं जडमतिः । समर्प्यैकं चेतःसरसिजमुमानाथ भवते सुखेनावस्थातुं जन इह न जानाति किमहो ॥ ९ ॥

नरत्वं देवत्वं नगवनमृगत्वं मशकता पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् । सदा त्वत्पादाब्जस्मरणपरमानन्दलहरी- विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ १० ॥

वटुर्वा गेही वा यतिरपि जटी वा तदितरो नरो वा य: कश्चिद्भवतु भव किं तेन भवति । यदीयं हॄत्पद्मं यदि भवदधीनं पशुपते तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥ ११ ॥

गुहायां गेहे वा बहिरपि वने वाद्रिशिखरे जले वा वह्नौ वा वसतु वसतेः किं वद फलम् । सदा यस्यैवान्तःकरणमपि शंभो तव पदे स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ १२ ॥

असारे संसारे निजभजनदूरे जडधिया भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् । मदन्यः को दीनस्तव कृपणरक्षातिनिपुण- स्त्वदन्यः को वा मे त्रिजगति शरण्य: पशुपते ॥ १३ ॥

प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः । त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकला: प्रयत्नात्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ १४ ॥

उपेक्षा नो चेत्किं न हरसि भवद्ध्यानविमुखां दुराशाभूयिष्ठां विधिलिपिमशक्तो यदि भवान् । शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते कथं वा निर्यत्नं करनखमुखेनैव लुलितम् ॥ १५ ॥

विरिञ्चिर्दीर्घायुर्भवतु भवता तत्परशिर- श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् । विचारः को वा मां विशद कृपया पाति शिव ते कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ १६ ॥

फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो प्रसन्नेऽपि स्वामिन भवदमलपादाब्जयुगलम् । कथं पश्येयं मां स्थगयति नमःसंभ्रमजुषां निलिम्पानां श्रेणिर्निजकनकमाणिक्यमकुटैः ॥ १७ ॥

त्वमेको लोकानां परमफलदो दिव्यपदवीं वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः । कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती कदा वा मद्रक्षां वहसि करुणापूरितदृशा ॥ १८ ॥

दुराशाभूयिष्ठे दुरधिपगृहद्वारघटके दुरन्ते संसारे दुरितनिलये दुःखजनके । मदायासं किं न व्यपनयसि कस्योपकृतये वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ १९ ॥

सदा मोहाटव्यां चरति युवतीनां कुचगिरौ नटत्याशाशाखास्वटति झटिति स्वैरमभितः । कपालिन् भिक्षो मे हृदयकपिमत्यन्तचपलं दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ २० ॥

धृतिस्तम्भाधारां दृढगुणनिबद्धां सगमनां विचित्रां पद्माढ्यां प्रतिदिवससन्मार्गघटिताम् । स्मरारे मच्चेतःस्फुटपटकुटीं प्राप्य विशदां जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ २१ ॥

प्रलोभाद्यैरर्थाहरणपरतन्त्रो धनिगृहे प्रवेशोद्युक्त: सन्भ्रमति बहुधा तस्करपते । इमं चेतश्चोरं कथमिह सहे शंकर विभो तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ २२ ॥

करोमि त्वत्पूजां सपदि सुखदो मे भव विभो विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति । पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षिमृगता- मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥ २३ ॥

कदा वा कैलासे कनकमणिसौधे सह गणै- र्वसञ्शंभोरग्रे स्फुटघटितमूर्धाञ्जलिपुटः । विभो साम्ब स्वामिन्परमशिव पाहीति निगद- न्विधातॄणां कल्पान्क्षणमिव विनेष्यामि सुखतः ॥ २४ ॥

स्तवैर्ब्रह्मादीनां जयजयवचोभिर्नियमिनां गणानां केलीभिर्मदकलमहोक्षस्य ककुदि । स्थितं नीलग्रीवं त्रिनयनमुमाश्लिष्टवपुषं कदा त्वां पश्येयं करधृतमृगं खण्डपरशुम् ॥ २५ ॥

कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रियुगलं गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् । समाश्लिष्याघ्राय स्फुटजलजगन्धान्परिमला- नलभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ २६ ॥

करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ गृहस्थे स्वर्भूजामरसुरभिचिन्तामणिगणे । शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ २७ ॥

सारूप्यं तव पूजने शिव महादेवेति संकीर्तने सामीप्यं शिवभक्तिधुर्यजनतासांगत्यसंभाषणे । सालोक्यं च चराचरात्मकंतनुध्याने भवानीपते सायुज्यं मम सिद्धमत्र भवति स्वामिन्कृतार्थोऽस्म्यहम् ॥ २८ ॥

त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो । वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ २९ ॥

वस्त्रोद्भूतविधौ सहस्रकरता पुष्पार्चने विष्णुता गन्धे गन्धवहात्मतान्नपचने वर्हिर्मुखाध्यक्षता । पात्रे काञ्चनगर्भतास्ति मयि चेद्वालेन्दुचूडामणे शुश्रूषां करवाणि ते पशुपते स्वामिन्स्त्रिलोकीगुरो ॥ ३० ॥

नालं वा परमोपकारकमिदं त्वेकं पशूनां पते पश्यन्कुक्षिगतांश्चराचरगणान्बाह्यस्थितान्रक्षितुम् । सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ ३१ ॥

ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् । जिह्वायां निहितश्च सिद्धधुटिका वा कण्ठदेशे भृतः किं ते नीलमणिर्विभूषणमयं शंभो महात्मन्वद ॥ ३२ ॥

नालं वा सकृदेव देव भवत: सेवा नतिर्वा नुति: पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् । स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥ ३३ ॥

किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव- द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते । भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥ ३४ ॥

योगक्षेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः । सर्वज्ञस्य दयाकरस्य भवत: किं वेदितव्यं मया शंभो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ ३५ ॥

भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मन:- कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् । सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वह- न्पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ ३६ ॥

आम्नयाम्बुधिमादरेण सुमन:संधा: समुद्यन्मनो मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः । सोमं कल्पतरूं सुपर्वसुरभिं चिन्तामणिं धीमतां नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ ३७ ॥

प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः । चेतःपुष्करलक्षितो भवति चेदानन्दपाथोनिधिः प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ ३८ ॥

धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं कामक्रोधमदादयो विगलिताः काला: सुखाविष्कृतः । ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ ३९ ॥

धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै- रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः । हृत्केदारयुताश्च भक्तिकलमा: साफल्यमातन्वते दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥ ४० ॥

पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने । जिह्वाचित्तशिरोङ्घ्रिहस्तनयनॢश्रोत्रैरहं प्रार्थितो मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवच: ॥ ४१ ॥

गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण- स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः । विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ ४२ ॥

मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे । वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय- स्तान्हत्वा मृगयाविनोदरुचितालाभं च संप्राप्स्यसि ॥ ४३ ॥

करलग्नमृगः करीन्द्रभङ्गो घनशार्दूलविखण्डनोऽस्तजन्तुः । गिरिशो विशदाकृतिश्च चेत:- कुहरे पञ्चमुखोऽस्ति मे कुतो भीः ॥ ४४ ॥

छन्दःशाखिशिखान्वितैर्द्विजवरैः संसेविते शाश्वते सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते । चेतःपक्षिशिखामणे त्यज वृथासंचारमन्यैरलं नित्यं शंकरपादपद्मयुगलीनीडे विहारं कुरु ॥ ४५ ॥

आकीर्णे नखराजिकान्तिविभवैरुद्यत्सुधावैभवै- राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते । नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ ४६ ॥

शुंभुध्यानवसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः । दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना ज्ञानानन्दसुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ ४७ ॥

नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासनाविष्कृतम् । शुंभुध्यानसरोवरं व्रज मनोहंसावतंस स्थिरं किं क्षुद्राश्रयपल्वलभ्रमणसंजातश्रमं प्राप्स्यसि ॥ ४८ ।।

आनन्दामृतपूरिता हरपदाम्भोजालवालोद्यता स्थैयौपघ्ननमुपेत्य भक्तिलतिका शाखोपशाखान्विता । उच्चैर्मानसकायमानपटलीमाक्रम्य निष्कल्मषा नित्याभीष्टफलप्रदा भवतु मे सत्कर्मसंवर्धिता ॥ ४९ ।।

संध्यारम्भविजृम्भितं श्रुतिशिरःस्थानान्तराधिष्ठितं सप्रेमभ्रमराभिराममसकृत्सद्वासनाशोभितम् । भोगीन्द्राभरणं समस्तसुमनःपूज्यं गुणाविष्कृतं सेवे श्रीगिरिमल्लिकार्जुनमहालिङ्गं शिवालिङ्गितम् ॥५०॥

भृङ्गीच्छानटनोत्कटः करिमदग्राही स्फुरन्माधवा- ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः । सत्पक्षः सुमनोवनेषु स पुनः साक्षान्मदीये मनो- राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥५१॥

कारुण्यामृतवर्षिणं धनविपद्ग्रीष्मच्छिदाकर्मठं विद्यासस्यफलोदयाय सुमनःसंसेव्यमिच्छाकृतिम् । नृत्यद्भक्तमयूरमद्रिनिलयं चञ्चज्जटामण्डलं शंभो वाञ्छति नीलकंधर सदा त्वां मे मनश्चातकः ॥ ५२ ॥

आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता- नुग्राहिप्रणवोपदेशनिनदैः केकीति यो गीयते । श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ ५३ ॥

संध्या धर्मदिनात्ययो हरिकराघातप्रभूतानक- ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला। भक्तानां परितोषबाष्पविततिर्वृष्टिर्मयूरी शिवा यस्मिन्नुज्ज्वलताण्डवं विजयते तं नीलकण्ठं भजे ॥५४॥

आद्यायामिततेजसे श्रुतिपदैर्वेद्याय साध्याय ते विद्यानन्दमयात्मने त्रिजगत: संरक्षणोद्योगिने । ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने सम्यक्ताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५५ ॥

नित्याय त्रिगुणात्मने पुरजिते कात्यायनीश्रेयसे सत्यायादिकुटुम्बिने मुनिमनःप्रत्यक्षचिन्मूर्तये । मायासृष्टजगत्रयाय सकलाम्नायान्तसंचारिणे सायंताण्डवसंभ्रमाय जटिने सेयं नतिः शंभवे ॥ ५६ ।।

नित्यं स्वोदरपूरणाय सकलानुद्दिश्य वित्ताशया व्यर्थ पर्यटनं करोमि भवत: सेवां न जाने विभो । मज्जन्मान्तरपुण्यपाकबलतस्त्वं शर्व सर्वान्तर- स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ।। ५७ ॥

एको वारिजबान्धवः क्षितिनभोव्याप्तं तमोमण्डलं भित्त्वा लोचनगोचरोऽपि भवति त्वं कोटिसूर्यप्रभः । वेद्यः किं न भवस्यहो धनतरं कीदृग्भवेन्मत्तम- स्तत्सर्वं व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ।। ५८ ॥

इंस: पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः कोक: कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा । चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो गौरीनाथ भवत्पदाब्जयुगलं कैवल्यसौख्यप्रदम् ।। ५९ ॥

रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो भीतः स्वस्थगृहं गृहस्थमतिथिर्दीन: प्रभुं धार्मिकम् । दीपं संतमसाकुलश्च शिखिनं शीतावृतस्त्वं तथा चेत: सर्वभयापहं व्रज सुखं शंभोः पदाम्भोरुहम् ॥ ६० ॥

अङ्कोलं निजबीजसंततिरयस्कान्तोपलं सूचिका साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद्वल्लभम् । प्राप्नोतीह यथा तथा पशुपतेः पादारविन्दद्वयं चेतोवृत्तिरुपेत्य तिष्ठति सदा सा भक्तिरित्युच्यते ॥६१॥

आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं वाचाशङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः । रुद्राक्षैर्भसितेन देव वपुषो रश्नां भवद्भावना- पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ।। ६२ ।।

मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते । किंचिद्भक्षितमांसशेषकबलं नव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥६३ ।।

वक्षस्ताडनमन्तकस्य कठिनापस्मारसंमर्दनं भूभृत्पर्यटनं नमत्सुरशिर:कोटीरसंघर्षणम् । कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं मच्चेतोमणिपादुकाविहरणं शंभो सदाङ्गीकुरु ।। ६४ ॥

वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते । दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ ६५ ।।

क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जना यत्कर्माचरितं मया च भवत: प्रीत्यै भवत्येव तत् । शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया || ६६ ॥

बहुविधपरितोषबाष्पपूर- स्फुटपुलकाङ्कितचारुभोगभूमिम् । चिरपदफलकाङ्क्षिसेव्यमानां परमसदाशिवभावनां प्रपद्ये ॥ ६७ ।।

अमितमुदमृतं मुहुर्दुहन्तीं विमलभवत्पदगोष्ठमावसन्तीम् । सदय पशुपते सुपुण्यपाकां मम परिपालय भक्तिधेनुमेकाम् ।। ६८ ॥

जडता पशुता कलङ्किता कुटिलचरत्वं च नास्ति मयि देव । अस्ति यदि राजमौले भवदाभरणस्य नास्मि किं पात्रम् ॥ ६९ ।।

अरहसि रहसि स्वतन्त्रबुद्ध्या वरिवसितुं सुलभ: प्रसन्नमूर्तिः । अगणितफलदायकः प्रभुर्मे जगदधिको हृदि राजशेखरोऽस्ति ।। ७० ।।

आरूढभक्तिगुणकुञ्चितभावचाप- युक्तैः शिवस्मरणबाणगणैरमोधैः । निर्जित्य किल्बिषपरिपून्विजयी सुधीन्द्रः सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ ७१ ॥

ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः । दिव्याश्रितं भुजगभूषणमुद्वहन्ति ये पादपद्ममिह ते शिव ते कृतार्थाः ।। ७२ ॥

भूदारतामुदवहद्यदपेक्षया श्री- भूदार एव किमतः सुमते लभस्व । केदारमाकलितमुक्तिमहौषधीनां पादारविन्दभजनं परमेश्वरस्य ॥ ७३ ॥

आशापाशक्लेशदुर्वासनादि- भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः । आशाशाटीकस्य पादारविन्दं चेत:पेटीं वासितां मे तनोतु ॥ ७४ ।।

कल्याणिनं सरसचित्रगतिं सवेगं सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् | चेतस्तुरङ्गमधिरुह्य चर स्मरारे नेतः समस्तजगतां वृषभाधिरूढ ॥ ७५ ॥

भक्तिर्महेशपदपुष्करमावसन्ती कादम्बिनीव कुरुते परितोषवर्षम् । संपूरितो भवति यस्य मनस्तटाक- स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ।। ७६ ।।

बुद्धिः स्थिरा भवितुमीश्वरपादपद्म- सक्ता वधूर्विरहिणीव सदा स्मरन्ती । सद्भावनास्मरणदर्शनकीर्तनादि संमोहितेव शिवमन्त्रजपेन विन्ते ॥ ७७ ॥

सदुपचारविधिष्वनुबोधितां सविनयां सुहृदं समुपाश्रिताम् । मम समुद्धर बुद्धिमिमां प्रभो वरगुणेन नवोढवधूमिव ।। ७८ ॥

नित्यं योगिमन:सरोजदलसंचारक्षमस्त्वत्क्रमः शंभो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः । अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय- त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ।। ७९ ॥

एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म- द्रक्षायै गिरिसीम्नि कोमलपदन्यास: पुराभ्यासितः । नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव ॥ ८० ॥

कंचित्कालमुमामहेश भवतः पादारविन्दार्चनैः कंचिद्ध्यानसमाधिभिश्च नतिभिः कंचित्कथाकर्णनैः । कंचित्कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं यः प्राप्नोति मुदा त्वदर्पितमना जीवन्स मुक्तः खलु ॥ ८१ ॥

वाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ । त्वत्पादे नयनार्पणं च कृतावांस्त्वद्देहभागो हरिः पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥ ८२ ॥

जननमृतियुतानां सेवया देवतानां न भवति सुखलेश: संशयो नास्ति तत्र । अजनिममृतरूपं साम्बमीशं भजन्ते य इह परमसौख्यं ते हि धन्या लभन्ते ॥ ८३ ।।

शिव तव परिचर्यासंनिधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये । सकलभुवनबन्धो सच्चिदानन्दसिन्धो सदय हृदयगेहे सर्वदा संवस त्वम् ।। ८४ ॥

जलधिमथनदक्षो नैव पातालभेदी न च वनमृगयायां नैव लुब्धः प्रवीणः । अशनकुसुमभूषावस्त्रमुख्यां सपर्यां कथय कथमहं ते कल्पयानीन्दुमौले ।। ८५ ।।

पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् । जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥८६।।

अशनं गरलं फणी कलापो वसनं चर्म च वाहनं महोक्षः । मम दास्यसि किं किमस्ति शंभो तव पादाम्बुजभक्तिमेव देहि ।। ८७ ।।

यदा कृताम्भोनिधिसेतुबन्धनः करस्थलाधःकृतपर्वताधिपः । भवानि ते लङ्घितपद्मसंभव- स्तदा शिवार्चास्तवभावनक्षमः ॥ ८८ ॥

नतिभिर्नुतिभिस्त्वमीश पूजा- विधिभिर्ध्यानसमाधिभिर्न तुष्टः । धनुषा मुसलेन चाश्मभिर्वा वद ते प्रीतिकरं तथा करोमि ।। ८९ ।।

वचसा चरितं वदामि शंभो- रहमुद्योगविधासु तेऽप्रसक्तः । मनसाकृतिमीश्वरस्य सेवे शिरसा चैव सदाशिवंनमामि ॥ ९०॥

आद्याविद्या हृद्गता निर्गतासी- द्विद्या हृद्या हृद्गता त्वत्प्रसादात् । सेवे नित्यं श्रीकरं त्वत्पदाब्जं भावे मुक्तेर्भाजनं राजमौले ।। ९१ ॥

दूरीकृतानि दुरितानि दुरक्षराणि दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि । सारं त्वदीयचरितं नितरां पिबन्तं गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ ९२ ॥

सोमकलाधरमौलौ कोमलघनकंधरे महामहसि । स्वामिनि गिरिजानाथे मामकहृदयं निरन्तरं रमताम् ॥ ९३ ॥

सा रसना ते नयने तावेव करौ स एव कृतकृत्यः । या ये यौ यो भर्गं वदतीक्षेते सदार्चतः स्मरति ॥ ९४ ॥

अतिमृदुलो मम चरणा- वतिकठिनं ते मनो भवानीश । इति विचिकित्सां संत्यज शिव कथमासीद्गिरौ तथा वेशः ।। ९५ ॥

धैर्याङ्कुशेन निभृतं रभसादाकृष्य भक्तिशृङ्खलया । पुरहर चरणालाने हृदयमदेभं बधान चिद्यन्त्रैः ॥ ९६ ॥

प्रचरत्यभितः प्रगल्भवृत्त्या मदवानेष मन:करी गरीयान् । परिगृह्य नयेन भक्तिरज्ज्वा परम स्थाणु पदं दृढं नयामुम् ॥ ९७ ॥

सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् । उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण

इदं ते युक्तं वा परमशिव कारुण्यजलधे गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया । हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ ९९॥

स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः । माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव- द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥

Continue your practice

Related Shiva prayers

Shiva Manasa Puja Dwadasha Jyotirlinga Stotram Shiva Tandava Stotram
Meaning & context

What does Shivananda Lahari mean?

A complete 100-part source text with a separate English and Hindi explanatory meaning aligned to every displayed row.

Text provenance

Source & verification

Shivananda Lahari — traditional source

Traditional/public-domain work; source transcription CC BY-SA

Source text normalized for readability; bilingual descriptive meanings are original BhajanDhara summaries.

Last verified: 2026-09-06