Dwadasha Jyotirlinga Stotram
द्वादश ज्योतिर्लिंग स्तोत्रम् · द्वादशज्योतिर्लिङ्गस्तोत्रम्
A traditional hymn honouring Shiva through the twelve Jyotirlinga shrines.
सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम्। भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये॥१॥
श्रीशैलसङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम्। तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम्॥२॥
अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम्। अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम्॥३॥
कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय। सदैव मान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे॥४॥
पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम्। सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि॥५॥
याम्ये सदङ्गे नगरेऽतिरम्ये विभूषिताङ्गं विविधैश्च भोगैः। सद्भक्तिमुक्तिप्रदमीशमेकं श्रीनागनाथं शरणं प्रपद्ये॥६॥
महाद्रिपार्श्वे च तटे रमन्तं सम्पूज्यमानं सततं मुनीन्द्रैः। सुरासुरैर्यक्षमहोरगाद्यैः केदारमीशं शिवमेकमीडे॥७॥
सह्याद्रिशीर्षे विमले वसन्तं गोदावरीतीरपवित्रदेशे। यद्दर्शनात्पातकमाशु नाशं प्रयाति तं त्र्यम्बकमीशमीडे॥८॥
सुताम्रपर्णीजलराशियोगे निबध्य सेतुं विशिखैरसंख्यैः। श्रीरामचन्द्रेण समर्पितं तं रामेश्वराख्यं नियतं नमामि॥९॥
यो डाकिनीशाकिनिकासमाजैर्निषेव्यमाणः पिशिताशनैश्च। सदैव भीमादिपदप्रसिद्धस्तं शङ्करं भक्तहितं नमामि॥१०॥
सानन्दमानन्दवने वसन्तमानन्दकन्दं हतपापवृन्दम्। वाराणसीनाथमनाथनाथं श्रीविश्वनाथं शरणं प्रपद्ये॥११॥
इलापुरे रम्यविशालकेऽस्मिन्समुल्लसन्तं च जगद्वरेण्यम्। नित्यं महोदारतरस्वभावं घृष्णेश्वराख्यं शरणं प्रपद्ये॥१२॥
ज्योतिर्मयद्वादशलिङ्गकानां शिवात्मनां प्रोक्तमिदं क्रमेण। स्तोत्रं पठित्वा मनुजोऽतिभक्त्या फलं तदालोक्य निशं भजेच्च॥१३॥
What does Dwadasha Jyotirlinga Stotram mean?
Each verse remembers one of the twelve Jyotirlingas and approaches Shiva through sacred geography, refuge and devotion.
For sacred texts, publish from reliable editions and clearly label transliteration, translation and interpretive meaning separately.
Source & verification
Dwadasha Jyotirlinga Stotram — Sanskrit Wikisource
Traditional/public-domain text; source transcription CC BY-SA
Cross-checked verse by verse against the cited Wikisource edition; minor recension differences can occur.
Open verification source ↗Last verified: 2026-09-06