Stotra

Shiva Raksha Stotram

शिवरक्षास्तोत्रम्

Yajnavalkya’s compact body-wide protection hymn.

SanskritPronunciationOptional meaning6 min
Dedicated toLord Shiva
Sacred textOriginal Sanskrit

चरितं देवदेवस्य महादेवस्य पावनम् ।अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् ।शिवं ध्यात्वा दशभुजं शिवरक्षा पठेन्नरः ॥ २

गङ्गाधरश्शिरः पातु फालमर्धेन्दुशेखरः ।नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः ।जिह्वां वागीश्वरः पातु कन्धरां शशिकन्धरः ॥ ४

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः ।भुजौ भूभारसंहर्ता करौ पातु पिनाकधृत् ॥ ५

हृदयं शङ्करः पातु जठरं गिरिजापतिः ।नाभिं मृत्युञ्जयः पातु कटिं व्याघ्राजिनाम्बरः ॥ ६

सक्थिनी पातु दीनार्तः शरणागतवत्सलः।ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ।। ७

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः ।चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ।। ८

एतां शिवबलोपेतां रक्षां यस्सुकृती पठेत् ।स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये ।दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १०

अभयङ्करनामेदं कवचं पार्वतीपतेः।भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११

इमां नारायणस्वप्ने शिवरक्षां यथादिशत् ।प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत् ।। १२ ॥

Continue exploring

Related prayers

Shiva Manasa Puja ↗Dwadasha Jyotirlinga Stotram ↗Shiva Tandava Stotram ↗
Meaning & context

What does Shiva Raksha Stotram mean?

A complete 12-part source text with a separate English and Hindi explanatory meaning aligned to every displayed row.