Stotra

Shiva Raksha Stotram

शिवरक्षास्तोत्रम्

Yajnavalkya’s compact body-wide protection hymn.

SanskritHinglishOptional meaning6 min✓ Verified text
🔱Dedicated toLord Shiva
0% read

चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १

गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षा पठेन्नरः ॥ २

गङ्गाधरश्शिरः पातु फालमर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णौ सर्पविभूषणः ॥ ३

घ्राणं पातु पुरारातिर्मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कन्धरां शशिकन्धरः ॥ ४

श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृत् ॥ ५

हृदयं शङ्करः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटिं व्याघ्राजिनाम्बरः॥ ६

सक्थिनी पातु दीनार्तः शरणागतवत्सलः। ऊरू महेश्वरः पातु जानुनी जगदीश्वरः ।। ७

जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिन्धुः सर्वाङ्गानि सदाशिवः ।। ८

एतां शिवबलोपेतां रक्षां यस्सुकृती पठेत् । स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९

ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये । दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १०

अभयङ्करनामेदं कवचं पार्वतीपतेः। भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११

इमां नारायणस्वप्ने शिवरक्षां यथादिशत् । प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यस्तथालिखत् ।। १२ ॥

Continue your practice

Related Shiva prayers

Shiva Manasa Puja Dwadasha Jyotirlinga Stotram Shiva Tandava Stotram
Meaning & context

What does Shiva Raksha Stotram mean?

A complete 12-part source text with a separate English and Hindi explanatory meaning aligned to every displayed row.

Text provenance

Source & verification

Shiva Raksha Stotram — traditional source

Traditional/public-domain work; source transcription CC BY-SA

Source text normalized for readability; bilingual descriptive meanings are original BhajanDhara summaries.

Last verified: 2026-09-06