Stotra

Shiva Ashtottara Shatanamavali

शिवाष्टोत्तरशतनामावलिः

One hundred and eight names contemplating Shiva’s forms and grace.

SanskritHinglishOptional meaning8 min✓ Verified text
🔱Dedicated toLord Shiva
0% read

शिवो महेश्वरश्शंभुः पिनाकी शशिशेखरः । वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ १

शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः । शिपिविष्टोंऽबिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२

भवश्शर्वस्त्रिलोकेशश्शितिकण्ठश्शिवाप्रियः । उग्रः कपाली कामारिरन्धकासुरसूदनः ॥३

गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः। भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४

कैलासवासी कवची कठोरस्त्रिपुरान्तकः। वृषाङ्को वृषभारूढो भस्मोद्धूळितविग्रहः ॥

सामप्रियस्खरमयस्त्रयीमूर्तिरनीश्वरः । सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥

हविर्यज्ञमयस्सोमः पञ्चवक्त्रसदाशिवः । विश्वेश्वरो वीरभद्रो गणनाथ: प्रजापतिः ॥

हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः । भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः॥

कृत्तिवासाः पुरारातिर्भगवान् प्रमथाधिपः । मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥

व्योमकेशो महासेनजनकश्वारुविक्रमः । रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥

अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः । शाश्वतः खण्डपरशुरज: पाशविमोचकः ।।

मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः । पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥

भगनेत्रभिदव्यक्तस्सहस्राक्षस्सहस्रपात् । अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥

एवं श्रीशंभुदेवस्य नाम्नामष्टोत्तरं शतम् ॥

Continue your practice

Related Shiva prayers

Shiva Manasa Puja Dwadasha Jyotirlinga Stotram Shiva Tandava Stotram
Meaning & context

What does Shiva Ashtottara Shatanamavali mean?

A complete 15-part source text with a separate English and Hindi explanatory meaning aligned to every displayed row.

Text provenance

Source & verification

Shiva Ashtottara Shatanamavali — traditional source

Traditional/public-domain work; source transcription CC BY-SA

Source text normalized for readability; bilingual descriptive meanings are original BhajanDhara summaries.

Last verified: 2026-09-06