Govindashtakam
गोविन्दाष्टकम्
A philosophical and playful hymn praising Govinda as both child of Vraja and supreme bliss.
Dedicated toLord Krishnaसत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम्।गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम्।मायाकल्पितनानाकारमनाकारं भुवनाकारम्।क्ष्मानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥१॥
मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासम्।व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्।लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकम्।लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥२॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम्।कैवल्यं नवनीताहारमनाहारं भुवनाहारम्।वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम्।शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥३॥
गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम्।गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम्।गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानम्।गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ॥४॥
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभम्।शश्वद्गोखुरनिर्धूतोद्धतधूलीधूसरसौभाग्यम्।श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम्।चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥५॥
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम्।व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तम्।निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तस्थम्।सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥६॥
कान्तं कारणकारणमादिमनादिं कालमनाभासम्।कालिन्दीगतकालियशिरसि मुहुर्नृत्यन्तं सुनृत्यन्तम्।कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम्।कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥७॥
वृन्दावनभुवि वृन्दारकगणवृन्दाराध्यं वन्देऽहम्।कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम्।वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वम्।वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥८॥
गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो।गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति।गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो।गोविन्दं परमानन्दामृतमन्तःस्थं स तमभ्येति ॥९॥
Related prayers
Madhurashtakam ↗Achyutashtakam ↗Bala Mukundashtakam ↗What does Govindashtakam mean?
Govindashtakam moves deliberately between Krishna's Vraja lilas and contemplative descriptions of the divine as truth, consciousness and bliss.