Bala Mukundashtakam
बालमुकुन्दाष्टकम्
Eight tender meditations on Mukunda as the divine child Krishna.
करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम्। वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि॥१॥
संहृत्य लोकान् वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम्। सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि॥२॥
इन्दीवरश्यामलकोमलाङ्गमिन्द्रादिदेवार्चितपादपद्मम्। सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि॥३॥
लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिम्। बिम्बाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि॥४॥
शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम्। भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि॥५॥
कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गे नटनप्रियन्तम्। तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि॥६॥
उलूखले बद्धमुदारशौर्यमुत्तुङ्गयुग्मार्जुनभङ्गलीलम्। उत्फुल्लपद्मायतचारुनेत्रं बालं मुकुन्दं मनसा स्मरामि॥७॥
आलोक्य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम्। सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि॥८॥
Related prayers
Madhurashtakam ↗Achyutashtakam ↗Govindashtakam ↗What does Bala Mukundashtakam mean?
The hymn holds together Krishna's intimate childhood play and his cosmic identity as Mukunda, the giver of liberation.
Reference & verification
Sanskrit Wikisource — Bala Mukundashtakam
Underlying traditional work is public domain; source page is CC BY-SA
Text independently formatted and checked against the cited traditional recension.
Last reviewed: 2026-09-08