Stotra

श्रीविष्णोः षोडशनामस्तोत्रम्

Vishnu Shodasha Nama Stotram

Sixteen names of Vishnu remembered at different moments of daily life.

🪷Dedicated toविष्णुः

औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम्। शयने पद्मनाभं च विवाहे च प्रजापतिम्॥१॥

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम्। नारायणं तनुत्यागे श्रीधरं प्रियसंगमे॥२॥

दुःस्वप्ने स्मर गोविन्दं संकटे मधुसूदनम्। कानने नारसिंहं च पावके जलशायिनम्॥३॥

जलमध्ये वराहं च पर्वते रघुनन्दनम्। गमने वामनं चैव सर्वकार्येषु माधवम्॥४॥

षोडशैतानि नामानि प्रातरुत्थाय यः पठेत्। सर्वपापविनिर्मुक्तो विष्णुलोके महीयते॥५॥

Meaning

Meaning & context

The hymn connects sixteen names and forms of Vishnu with ordinary transitions, journeys and moments of vulnerability.