Stotra

श्रीविष्णोः षोडशनामस्तोत्रम्

Vishnu Shodasha Nama Stotram

Sixteen names of Vishnu remembered at different moments of daily life.

Dedicated toविष्णुः
Sacred textOriginal Sanskrit

औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम्।शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥१॥

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम्।नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥२॥

दुःस्वप्ने स्मर गोविन्दं संकटे मधुसूदनम्।कानने नारसिंहं च पावके जलशायिनम् ॥३॥

जलमध्ये वराहं च पर्वते रघुनन्दनम्।गमने वामनं चैव सर्वकार्येषु माधवम् ॥४॥

षोडशैतानि नामानि प्रातरुत्थाय यः पठेत्।सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥५॥

Meaning

Meaning & context

The hymn connects sixteen names and forms of Vishnu with ordinary transitions, journeys and moments of vulnerability.