विष्णोरष्टाविंशतिनामस्तोत्रम्
Vishnu Ashtavimshati Nama Stotram
A compact hymn that gathers twenty-eight celebrated names and forms of Vishnu.
अर्जुन उवाच। किं नु नामसहस्राणि जपते च पुनः पुनः। यानि नामानि दिव्यानि तानि चाचक्ष्व केशव॥१॥
श्रीभगवानुवाच। मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम्। गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम्॥२॥
पद्मनाभं सहस्राक्षं वनमालिं हलायुधम्। गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम्॥३॥
विश्वरूपं वासुदेवं रामं नारायणं हरिम्। दामोदरं श्रीधरं च वेदाङ्गं गरुडध्वजम्॥४॥
अनन्तं कृष्णगोपालं जपतो नास्ति पातकम्। गवां कोटिप्रदानस्य अश्वमेधशतस्य च॥५॥
कन्यादानसहस्राणां फलं प्राप्नोति मानवः। अमायां वा पौर्णमास्यामेकादश्यां तथैव च॥६॥
सन्ध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च। मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते॥७॥
Meaning & context
Twenty-eight names present Vishnu through avatars, attributes, relationships and cosmic forms.