Stotra

विष्णोरष्टाविंशतिनामस्तोत्रम्

Vishnu Ashtavimshati Nama Stotram

A compact hymn that gathers twenty-eight celebrated names and forms of Vishnu.

Dedicated toविष्णुः
Sacred textOriginal Sanskrit

अर्जुन उवाच।किं नु नामसहस्राणि जपते च पुनः पुनः।यानि नामानि दिव्यानि तानि चाचक्ष्व केशव ॥१॥

श्रीभगवानुवाच।मत्स्यं कूर्मं वराहं च वामनं च जनार्दनम्।गोविन्दं पुण्डरीकाक्षं माधवं मधुसूदनम् ॥२॥

पद्मनाभं सहस्राक्षं वनमालिं हलायुधम्।गोवर्धनं हृषीकेशं वैकुण्ठं पुरुषोत्तमम् ॥३॥

विश्वरूपं वासुदेवं रामं नारायणं हरिम्।दामोदरं श्रीधरं च वेदाङ्गं गरुडध्वजम् ॥४॥

अनन्तं कृष्णगोपालं जपतो नास्ति पातकम्।गवां कोटिप्रदानस्य अश्वमेधशतस्य च ॥५॥

कन्यादानसहस्राणां फलं प्राप्नोति मानवः।अमायां वा पौर्णमास्यामेकादश्यां तथैव च ॥६॥

सन्ध्याकाले स्मरेन्नित्यं प्रातःकाले तथैव च।मध्याह्ने च जपन्नित्यं सर्वपापैः प्रमुच्यते ॥७॥

Meaning

Meaning & context

Twenty-eight names present Vishnu through avatars, attributes, relationships and cosmic forms.