Stotra

उमामहेश्वरस्तोत्रम्

Uma Maheshwara Stotram

Salutations to Shiva-Parvati as inseparable cosmic parents.

🔱Dedicated toशिवः

नमः शिवाभ्यां नवयौवनाभ्यां परस्पराश्लिष्टवपुर्धराभ्यां । नगेन्द्रकन्यावृषकेतनाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ १ ॥

नमः शिवाभ्यां सरसोत्सवाभ्यां नमस्कृताभीष्टवरप्रदाभ्याम् । नारायणेनार्चितपादुकाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ २ ॥

नमः शिवाभ्यां वृषवाहनाभ्यां विरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम । विभूतिपाटीरविलेपनाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ३ ॥

नमः शिवाभ्यां जगदीश्वराभ्यां जगत्पतिभ्यां जयविग्रहाभ्याम् जम्भारिमुख्यैरभिवन्दिताभ्यां नमो नमः शंकर पार्वतीभ्याम ॥४॥

नमः शिवाभ्यां परमौषधाभ्यां पञ्चाक्षरीपञ्जररञ्जिताभ्याम् । प्रपञ्चसृष्टिस्थितिसंहृताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ५ ॥

नमः शिवाभ्यामतिसुन्दराभ्या- मत्यन्तमासक्तहृदम्बुजाभ्याम् । अशेषलोकैकहितंकराभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ६ ॥

नमः शिवाभ्यां कलिनाशनाभ्यां कङ्कालकल्याणवपुर्धराभ्याम् । कैलासशैलस्थितदेवताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ७॥

नमः शिवाभ्यामशुभापहाभ्या- मशेषलोकैकविशेषिताभ्याम् । अकुण्ठिताभ्यां स्मृतिसंभृताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ८॥

नम: शिवाभ्यां रथवाहनाभ्यां रवीन्दुवैश्वानरलोचनाभ्याम् । राकाशशाङ्काभमुखाम्बुजाभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ९॥

नम: शिवाभ्यां जटिलंधराभ्यां जरामृतिभ्यां च विवर्जिताभ्याम् । जनार्दनाब्जोद्भवपूजिताभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ १०॥

नम: शिवाभ्यां विषमेक्षणाभ्यां बिल्वच्छदामल्लिकदामभृद्भ्याम् । शोभावतीशान्तवतीश्वराभ्यां नमो नमः शंकरपार्वतीभ्याम् ॥ ११ ॥

नमः शिवाभ्यां पशुपालकाभ्यां जगत्रयीरक्षणबद्धहृद्भ्याम । समस्तदेवासुरपूजिताभ्यां नमो नम: शंकरपार्वतीभ्याम् ।। १२ ।।

स्तोत्रं त्रिसंध्यं शिवपार्वतीभ्यां भक्त्या पठेद्वादशकं नरो यः । स सर्वसौभाग्यफलानि भुङ्क्ते शतायुरन्ते शिवलोकमेति ॥ १३ ।।

Meaning

Meaning & context

A complete 13-part source text with a separate English and Hindi explanatory meaning aligned to every displayed row.