त्रैलोक्यमङ्गलं गोपालकवचम्
Trailokya Mangala Gopala Kavach
The complete forty-one-verse protective Krishna kavach from the Sanatkumara Tantra recension.
Dedicated toकृष्णःत्रैलोक्यमङ्गलं नाम कृपया कथय प्रभो ।। १ ।।
सनत्कुमार उवाच
शृणु वक्ष्यामि विप्रेन्द्र कवचं परमाद्भुतम् ।
नारायणेन कथितं कृपया ब्रह्मणे पुरा ।। २ ।।
ब्रह्मणा कथितं मह्यं परं स्नेहाद् वदामि ते ।
अतिगुह्यतरं तत्त्वं ब्रह्ममन्त्रौघविग्रहम् ।। ३ ।।
यद् धृत्वा पठनाद् ब्रह्मा सृष्टिं वितनुते ध्रुवम् ।
यद् धृत्वा पठनात् पाति महालक्ष्मीर्जगत्त्रयम् ।। ४ ।।
पठनाद् धारणात् शम्भुः संहर्ता सर्वतत्त्ववित् ।
त्रैलोक्यजननी दुर्गा महिषादिमहासुरान् ।। ५ ।।
नरदृप्तान् जघानैव पठनाद् धारणाद् यतः ।
एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ।। ६ ।।
शिष्याय विष्णुभक्ताय साधकाय प्रकाशयेत् ।
शठाय परशिष्याय दत्त्वा मृत्युमवाप्नुयात् ।। ७ ।।
त्रैलोक्यमङ्गलस्याऽस्य कवचस्य प्रजापतिः ।
ऋषिः च्छन्दश्च गायत्री देवो नारायणः स्वयम् ।। ८ ।।
धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ।
प्रणवो मे शिरः पातु नमो नारायणाय च ।। ९ ।।
भालं पायान्नेत्रयुग्ममष्टार्णो भुक्तिमुक्तिदः ।
क्लीं पायात् श्रौत्रयुग्मं चैकाक्षरः सर्वमोहनः ।। १० ।।
क्लीं कृष्णाय सदा घ्राणं गोविन्दायेति जिह्निकाम् ।
गोपीजनपदं वल्लभायं स्वाहाङनं मम ।। ११ ।।
अष्टादशाक्षरो मन्त्रं कण्ठं पातु दशाक्षरः ।
गोपीजनपदं वल्लभाय स्वाहा भुजद्वयम् ।। १२ ।।
क्लीं ग्लीं क्लीं श्यामलाङ्गाय नमः स्कन्धौ दशाक्षरः ।
क्लीं कृष्ण क्लीं करौ पायात् क्लीं कृष्णाय चाङ्गजोऽवतु ।। १३ ।।
हृदयं श्रीं क्लीं भुवनेशीं क्लीं कृष्णाय क्लीं स्तनौ मम ।
गोपालायाऽग्निजायान्तं कुक्षियुग्मं सदाऽवतु ।। १४ ।।
क्लीं कृष्णाय सदा पातु पार्श्वयुग्मं मनूत्तमः ।
कृष्णगोविन्दकौ पातु स्मराद्यौ ङेयुतौ मनुः ।। १५ ।।
अष्टाक्षरः पातु नाभि कृष्णेति द्व्यक्षरोऽवतु ।
पृष्ठं क्लीं कृष्ण कङ्कालं क्लीं कृष्णाय द्विठान्तकः ।। १६ ।।
सक्थिनी सततं पातु श्रीं ह्रीं क्लीं कृष्ण ठद्वयम् ।
ऊरू सप्ताक्षरः पातु त्रयोदशाक्षरोऽवतु ।। १७ ।।
श्रीं ह्रीं क्लीं पदतो गोपीजनवल्लभदं ततः ।
भायस्वाहेति पायुं वै क्लीं ह्रीं श्रीं दशवर्णकः ।। १८ ।।
जानुनी च सदा पातु ह्रीं श्रीं क्लीं सदशाक्षरः ।
त्रयोदशाक्षरः पातु जङ्घे चक्रायुधः स्वयम् ।। १९ ।।
अष्टादशाक्षरो ह्रीं श्रीं पूर्वको विंशवर्णकः ।
सर्वाङ्गं मे सदा पातु द्वारकानायको बली ।। २० ।।
नमो भगवते पश्चाद् वासुदेवाय तत्परम् ।
ताराद्या द्वादशार्णोऽयं प्राच्यां मां सर्वदाऽवतु ।। २१ ।।
श्रीं ह्रीं क्लीं दशवर्णं तु क्लीं ह्रीं श्रीं षोडशाक्षरः ।
गदाद्युदायुधो विष्णुर्मामग्नेर्दिशि रक्षतु ।। २२ ।।
ह्रीं श्रीं दशाक्षरो मन्त्रो दक्षिणे मां सदाऽवतु ।
तारो नमो भगवते रुक्मिणीवल्लभाय च ।। २३ ।।
स्वाहेति षोडशार्णोऽयं नैर्-ऋत्यां दिशि रक्षतु ।
क्लीं हृषीके पदंशाय नमो मां वारुणेऽवतु ।। २४ ।।
अष्टादशार्णः कामान्तो वायव्ये मां सदाऽवतु ।
श्रीं मायाकामकृष्णाय गोविन्दाय द्विठो मनुः ।। २५ ।।
द्वादशाक्षरके विष्णुरुत्तरे मां सदाऽवतु ।
वाग्भवं कामकृष्णाय ह्रीं गोविन्दाय ततः परम् ।। २६ ।।
श्रीं गोपीजनवल्लभान्ते भायस्वाहेति सौस्ततः ।
द्वाविंशत्यक्षरो मन्त्रो मामैशान्यां सदाऽवतु ।। २७ ।।
काली यस्य फणामध्ये दिव्यं नृत्यं करोति यः ।
नमामि देवकीपुत्रं नृत्यराजानमच्युतम् ।। २८ ।।
द्वाविंशत्यक्षरो मन्त्रोऽप्यधो मां सर्वतोऽवतु ।
कामदेवाय विद्महे पुष्पबाणाय धीमहि ।। २९ ।।
तन्नोऽनङ्गः प्रचोदयादेष मां पातु चोर्द्ध्वतः ।
इति ते कथितं विप्र ब्रह्ममन्त्रौघविग्रहम् ।। ३० ।।
त्रैलोक्यमङ्गलं नाम कवचं ब्रह्मरूपकम् ।
ब्रह्नेशप्रमुखाऽधीशनारायणमुखाऽच्युतम् ।। ३१ ।।
तव स्नेहान्मयाख्यातं प्रवक्तव्यं न कस्य चित् ।
गुरुं प्रणम्य विधिवत् कवचं प्रपठेत् ततः ।। ३२ ।।
सकृद् द्वित्रिर्यथाज्ञानं सोऽपि सर्वतपोमयः ।
मन्त्रेषु सकलेष्वेव देशिको नाऽत्र संशयः ।। ३३ ।।
शतमष्टोत्तरं चास्य पुरश्चर्यांविधिः स्मृतः ।
हवनादीन् दशांशेन कृत्वा तत् साधयेद् ध्रुवम् ।। ३४ ।।
यदि स्यात् सिद्धकवचो विष्णुरेव भवेत् स्वयम् ।
मन्त्रसिद्धिर्भवेत् तस्य पुरश्चर्याविधानतः ।। ३५ ।।
स्पर्धामुद्धूय सततं लक्ष्मीर्वाणी वसेत् सदा ।
पुष्पाञ्जल्यष्टकं दत्त्वा मूलेनैव पठेत् सकृत् ।। ३६ ।।
दशवर्षसहस्राणां पूजायाः फलमाप्नुयात् ।
भूर्जे विलिख्य गुलिकां स्वर्णस्थां धारयेद् यदि ।। ३७ ।।
कण्ठे वा दक्षिणे बाहौ सोऽपि विष्णुर्न संशयः ।
अश्वमेधसहस्राणि वाजपेयशतानि च ।। ३८ ।।
महादानानि यान्येव प्रादक्षिण्यं भुवस्तथा ।
कलां नार्हन्ति तान्येव सकृदुच्चारणात् ततः ।। ३९ ।।
कवचस्य प्रसादेन जीवन्मुक्तो भवेन्नरः ।
त्रैलोक्यं क्षोभयत्येव त्रैलोक्यविजयी भवेत् ।। ४० ।।
इदं कवचमज्ञात्वा भजेद् यः पुरुषोत्तमम् ।
शतलक्षप्रजप्तोऽपि न मन्त्रः सिद्धिदायकः ।। ४१ ।।
इति सनत्कुमारीये त्रैलोक्यमङ्गल नाम नवमः पटलः ।। ९ ।।
Sanskrit Wikisource — Sanatkumara Tantra
Public-domain Sanskrit source; Wikisource transcription is CC BY-SA
Extracted from the ninth patala; the complete source snapshot is stored for verification.