Kavach

श्रीसूर्यकवचम् — त्रैलोक्यमङ्गलम्

Surya Kavacham — Trailokya Mangalam

An eighteen-verse tantric kavacha that places Surya's sacred names and syllables around the body as a prayer of protection.

Dedicated toसूर्यः
Sacred textOriginal Sanskrit

साम्ब साम्ब महाबाहो शृणु मे कवचं शुभम्।त्रैलोक्यमङ्गलं नाम कवचं परमाद्भुतम् ॥१॥

यज्ज्ञात्वा मन्त्रवित्सम्यक् फलमाप्नोति निश्चितम्।यद्धृत्वा च महादेवो गणनामधिपोऽभवत् ॥२॥

पठनाद्धारणाद्विष्णुः सर्वेषां पालकः सदा।एवमिन्द्रादयः सर्वे सर्वैश्वर्यमवाप्नुयुः ॥३॥

कवचस्य ऋषिर्ब्रह्मा छन्दोऽनुष्टुबुदाहृतम्।श्रीसूर्यो देवता चात्र सर्वदेवनमस्कृतः ॥४॥

आरोग्ययशोमोक्षेषु विनियोगः प्रकीर्तितः।प्रणवो मे शिरः पातु घृणिर्मे पातु भालकम् ॥५॥

सूर्योऽव्यान्नयनद्वन्द्वमादित्यः कर्णयुग्मकम्।अष्टाक्षरो महामन्त्रः सर्वाभीष्टफलप्रदः ॥६॥

ह्रीं बीजं मे मुखं पातु हृदयं भुवनेश्वरी।चन्द्रबीजं विसर्गाढ्यं पातु मे गुह्यदेशकम् ॥७॥

त्र्यक्षरोऽसौ महामन्त्रः सर्वतन्त्रेषु गोपितः।शिवो वह्निसमायुक्तो वामाक्षिविन्दुभूषितः ॥८॥

एकाक्षरो महामन्त्रः श्रीसूर्यस्य प्रकीर्तितः।गुह्याद्गुह्यतरो मन्त्रो वाञ्छाचिन्तामणिः स्मृतः ॥९॥

शीर्षादिपादपर्यन्तं सदा पातु मनूत्तमः।इति ते कथितं दिव्यं त्रिषु लोकेषु दुर्लभम् ॥१०॥

श्रीप्रदं कान्तिदं नित्यं धनारोग्यविवर्धनम्।कुष्ठादिरोगशमनं महाव्याधिविनाशनम् ॥११॥

त्रिसन्ध्यं यः पठेन्नित्यमरोगी बलवान्भवेत्।बहुना किमिहोक्तेन यद्यन्मनसि वर्तते ॥१२॥

तत्तत्सर्वं भवत्येव कवचस्य च धारणात्।भूतप्रेतपिशाचाश्च यक्षगन्धर्वराक्षसाः ॥१३॥

ब्रह्मराक्षसवेताला नैव द्रष्टुमपि क्षमाः।दूरादेव पलायन्ते तस्य सङ्कीर्तनादपि ॥१४॥

भूर्जपत्रे समालिख्य रोचनागुरुकुङ्कुमैः।रविवारे च सङ्क्रान्त्यां सप्तम्याञ्च विशेषतः ॥१५॥

धारयेत् साधकश्रेष्ठस्त्रैलोक्यविजयी भवेत्।त्रिलोहमध्यगं कृत्वा धारयेद्दक्षिणे भुजे ॥१६॥

शिखायामथवा कण्ठे सोऽपि सूर्यो न संशयः।इति ते कथितं साम्ब त्रैलोक्यमङ्गलाभिधम् ॥१७॥

कवचं दुर्लभं लोके तव स्नेहात्प्रकाशितम्।अज्ञात्वा कवचं दिव्यं यो जपेत् सूर्यमनूत्तमम्।सिद्धिर्न जायते तस्य कल्पकोटिशतैरपि ॥१८॥

Text source

Sanskrit Wikisource — Brihat Tantra Sara, fourth section

Ancient public-domain text; Sanskrit Wikisource transcription available under CC BY-SA 4.0

The source identifies this as the Trailokya Mangala Surya Kavacha of the Brahmayamala. Orthographic spacing has been regularised without changing the verses.

Meaning

Meaning & context

A kavacha is a devotional 'armour' made of sacred remembrance: names and seed syllables are visualised around the body rather than treated as physical protection. This text also contains traditional promises about disease, prosperity and unseen beings, plus historical talisman instructions. BhajanDhara preserves those passages as religious literature, not as medical advice or a guaranteed remedy; do not ingest or apply unidentified ritual substances, and never stare directly at the sun.