सूर्याष्टोत्तरशतनामस्तोत्रम्
Surya Ashtottara Shatanama
The ancient sequence of Surya's 108 names taught to Yudhishthira in the Mahabharata's Vana Parva.
Dedicated toसूर्यःसूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः।गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥१॥
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम्।सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥२॥
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः।ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥३॥
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः।धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥४॥
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः।कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ॥५॥
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः।पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥६॥
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः।वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥७॥
भूताश्रयो भूतपतिः सर्वभूतनिषेवितः।मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः ॥८॥
जयो विशालो वरदः शीघ्रगः प्राणधारणः।धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥९॥
द्वादशात्मारविन्दाक्षः पिता माता पितामहः।स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥१०॥
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः।चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥११॥
Mahabharata critical-edition transcription — Vana Parva 3.3.21–31
Ancient/public-domain Mahabharata passage
Cross-checked with Sanskrit Wikisource, Vana Parva chapter 3. Recensions vary in a few names; this entry follows the cited critical-edition sequence.
Meaning & context
This is the Mahabharata's compact 108-name sequence, not a later namavali derived from Aditya Hridayam. The meanings explain each group without pretending that every name has only one possible translation.