Ashtakam

सूर्याष्टकम्

Surya Ashtakam

Eight traditional verses of salutation to Surya Dev.

Dedicated toसूर्यः
Sacred textOriginal Sanskrit

आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर।दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥१॥

सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम्।श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥२॥

लोहितं रथमारूढं सर्वलोकपितामहम्।महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥३॥

त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम्।महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥४॥

बृंहितं तेजसां पुञ्जं वायुराकाशमेव च।प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥५॥

बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम्।एकचक्रधरं देवं तं सूर्यं प्रणमाम्यहम् ॥६॥

तं सूर्यं जगत्कर्तारं महातेजःप्रदीपनम्।महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥७॥

तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम्।महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥८॥

Meaning

Meaning & context

The verses praise Surya as radiant, life-giving, universal and a source of knowledge.