श्रीरामचन्द्राष्टकम्
Shri Ramachandrashtakam
A nine-verse meditation asking Shri Rama, Lord of Sita, to dwell continually in the heart.
ॐ चिदाकारो धाता परमसुखदः पावनतनुर्मुनीन्द्रैर्योगीन्द्रैर्यतिपतिसुरेन्द्रैर्हनुमता। सदा सेव्यः पूर्णो जनकतनयाङ्गः सुरगुरू रमानाथो रामो रमतु मम चित्ते तु सततम्॥१॥
मुकुन्दो गोविन्दो जनकतनयालालितपदः पदं प्राप्ता यस्याधमकुलभवा चापि शबरी। गिरातीतोऽगम्यो विमलधिषणैर्वेदवचसा रमानाथो रामो रमतु मम चित्ते तु सततम्॥२॥
धराधीशोऽधीशः सुरनरवराणां रघुपतिः किरीटी केयूरी कनककपिशः शोभितवपुः। समासीनः पीठे रविशतनिभे शान्तमनसो रमानाथो रामो रमतु मम चित्ते तु सततम्॥३॥
वरेण्यः शरण्यः कपिपतिसखश्चान्तविधुरो ललाटे काश्मीरो रुचिरगतिभङ्गः शशिमुखः। नराकारो रामो यतिपतिनुतः संसृतिहरो रमानाथो रामो रमतु मम चित्ते तु सततम्॥४॥
विरूपाक्षः काश्यामुपदिशति यन्नाम शिवदं सहस्रं यन्नाम्नां पठति गिरिजा प्रत्युषसि वै। स्वलोके गायन्तीश्वरविधिमुखा यस्य चरितं रमानाथो रामो रमतु मम चित्ते तु सततम्॥५॥
परो धीरोऽधीरोऽसुरकुलभवश्चासुरहरः परात्मा सर्वज्ञो नरसुरगणैर्गीतसुयशाः। अहल्याशापघ्नः शरकरऋजुः कौशिकसखो रमानाथो रामो रमतु मम चित्ते तु सततम्॥६॥
हृषीकेशः शौरिर्धरणिधरशायी मधुरिपुरुपेन्द्रो वैकुण्ठो गजरिपुहरस्तुष्टमनसा। बलिध्वंसी वीरो दशरथसुतो नीतिनिपुणो रमानाथो रामो रमतु मम चित्ते तु सततम्॥७॥
कविः सौमित्रीड्यः कपटमृगघाती वनचरो रणश्लाघी दान्तो धरणिभरहर्ता सुरनुतः। अमानी मानज्ञो निखिलजनपूज्यो हृदिशयो रमानाथो रामो रमतु मम चित्ते तु सततम्॥८॥
इदं रामस्तोत्रं वरममरदासेन रचितमुषःकाले भक्त्या यदि पठति यो भावसहितम्। मनुष्यः स क्षिप्रं जनिमृतिभयं तापजनकं परित्यज्य श्रेष्ठं रघुपतिपदं याति शिवदम्॥९॥
Meaning & context
Each verse ends with the prayer that Rama should remain continually present in the devotee's heart, while recalling his virtues, relationships and identity with Vishnu.