Ashtakam

शिवाष्टकम् (शिव स्तुति) — प्रभुं प्राणनाथम्

Shivashtakam (Shiv Stuti) — Prabhum Prananatham

The complete traditional Shiv Stuti beginning Prabhum Prananatham, with eight verses and its concluding phalashruti.

Dedicated toशिवः
Sacred textOriginal Sanskrit

प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् ।भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे ॥१॥

गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् ।जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे ॥२॥

मुदामाकरं मण्डनं मण्डयन्तं महोमण्डलं भस्मभूषाधरं तम् ।अनादिं ह्यपारं महामोहमारं शिवं शङ्करं शम्भुमीशानमीडे ॥३॥

वटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदासुप्रकाशम् ।गिरीशं गणेशं महेशं सुरेशं शिवं शङ्करं शम्भुमीशानमीडे ॥४॥

गिरीन्द्रात्मजासङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्नगेहम् ।परब्रह्म ब्रह्मादिभिर्वन्द्यमानं शिवं शङ्करं शम्भुमीशानमीडे ॥५॥

कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोजनम्राय कामं ददानम् ।बलीवर्धमानं सुराणां प्रधानं शिवं शङ्करं शम्भुमीशानमीडे ॥६॥

शरच्चन्द्रगात्रं गणानन्दपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।अपर्णाकलत्रं सदा सच्चरित्रं शिवं शङ्करं शम्भुमीशानमीडे ॥७॥

हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदा निर्विकारम् ।श्मशाने वसन्तं मनोजं दहन्तं शिवं शङ्करं शम्भुमीशानमीडे ॥८॥

स्तवं यः प्रभाते नरः शूलपाणेः पठेत्सर्वदा भर्गभावानुरक्तः ।स पुत्रं धनं धान्यमित्रं कलत्रं विचित्रैः समासाद्य मोक्षं प्रयाति ॥९॥

Meaning

Meaning & context

A traditional Shaiva prayer with a separate plain-language meaning for every displayed verse.