Ashtakam
🔱Dedicated toशिवःशिवाष्टकम् — प्रभुं प्राणनाथम्
Shivashtakam — Prabhum Prananatham
A beloved prayer of surrender to Shiva as the Lord of life.
प्रभुं प्राणनाथं विभुं विश्वनाथं जगन्नाथनाथं सदानन्दभाजम् । भवद्भव्यभूतेश्वरं भूतनाथं शिवं शङ्करं शम्भुमीशानमीडे ॥१॥
गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशाधिपालम् । जटाजूटगङ्गोत्तरङ्गैर्विशालं शिवं शङ्करं शम्भुमीशानमीडे ॥२॥
मुदामाकरं मण्डनं मण्डयन्तं महोमण्डलं भस्मभूषाधरं तम् । अनादिं ह्यपारं महामोहमारं शिवं शङ्करं शम्भुमीशानमीडे ॥३॥
वटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदासुप्रकाशम् । गिरीशं गणेशं महेशं सुरेशं शिवं शङ्करं शम्भुमीशानमीडे ॥४॥
Meaning & context
A traditional Shaiva prayer with a separate plain-language meaning for every displayed verse.