Stotra
शिव षडक्षर स्तोत्रम्
Shiva Shadakshara Stotram
A six-verse meditation on the syllables of Om Namah Shivaya.
Dedicated toशिवःॐकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः ।कामदं मोक्षदं चैव ॐकाराय नमो नमः ॥१॥
नमन्ति ऋषयो देवा नमन्त्यप्सरसां गणाः ।नरा नमन्ति देवेशं नकाराय नमो नमः ॥२॥
महादेवं महात्मानं महाध्यानपरायणम् ।महापापहरं देवं मकाराय नमो नमः ॥३॥
शिवं शान्तं जगन्नाथं लोकानुग्रहकारकम् ।शिवमेकपदं नित्यं शिकाराय नमो नमः ॥४॥
वाहनं वृषभो यस्य वासुकिः कण्ठभूषणम् ।वामे शक्तिधरं देवं वकाराय नमो नमः ॥५॥
यत्र यत्र स्थितो देवः सर्वव्यापी महेश्वरः ।यो गुरुः सर्वदेवानां यकाराय नमो नमः ॥६॥
षडक्षरमिदं स्तोत्रं यः पठेच्छिवसन्निधौ ।शिवलोकमवाप्नोति शिवेन सह मोदते ॥७॥
Meaning & context
A traditional Shaiva prayer with a separate plain-language meaning for every displayed verse.