शिवसहस्रनामस्तोत्रम्
Shiva Sahasranama Stotram
The Mahabharata tradition's extended litany of Shiva's thousand and eight names.
वन्दे शंभुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् वासुदेवः- ततस्स प्रयतो भूत्वा मम तात युधिष्ठिर । प्राञ्जलिः प्राह विप्रर्षिनामसंग्रहमादितः ॥ उपमन्यु:- ब्रह्मप्रोक्तैर्ऋषिप्रोक्तैर्वेदवेदाङ्गसंभवैः। सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः॥ महद्भिर्विहितैस्सत्यैस्सिद्धैस्सर्वार्थसाधकैः। ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥ यथोक्तैस्साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः । प्रवरं प्रथम स्वर्ग्यं सर्वभूतहितं शुभम् ॥ श्रुतैस्सर्वत्र जगति ब्रह्मलोकावतारितैः। सत्यैस्तत्परमं ब्रह्म ब्रह्मप्रोक्तैस्सनातनम् ॥५ वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम । वरयैनं भवं देवं भक्तस्वं परमेश्वरम् ॥६ तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् । न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् ॥ ७ युक्तेनापि विभूतीनामपि वर्षशतैरपि । यस्यादिमध्यमान्तानि गम्यन्ते न सुरैरपि ॥८
कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्स्न्येन माधव । किन्तु देवस्य महतस्सङ्क्षिप्तार्थपदाक्षरम् ॥९ शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य धीमतः। अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ॥१० यदा तेनाभ्यनुज्ञातस्स्तुतो वै स तदा मया । अनादिनिधनस्याहं जगद्योनेर्महात्मनः ॥११ नाम्नां किञ्चित्समुद्देशं वक्ष्याम्यव्यक्तयोनिनः । वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः ॥ १२ शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना । दशनामसहस्राणि यान्याह प्रपितामहः ॥ १३ तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् । गिरेस्सारं यथा हेम पुष्पसारं यथा मधु ॥ १४ घृतात्सारं यथा मण्डं तथैतस्सारमुद्धृतम् । सर्वपापापहमिदं चतुर्वेदसमन्वितम् ॥ १५ प्रयत्नेनाधिगन्तव्यं धार्ंय च प्रयतात्मना । माङ्गळ्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १६
इदं भक्ताय दातव्यं श्रद्धयाऽनास्तिकाय च । नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥१७ यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् । स कृष्ण नरकं याति सह पूर्वैस्सहात्मजः ॥ १८ इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् । इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥१९ यं ज्ञात्वा ह्यन्तकालेऽपि गच्छेत परमां गतिम् । पवित्रं मङ्गळं मेध्यं कल्याणमिदमुत्तमम् ॥२० इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः । सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ २१ तदाप्रभृति चैवायमीश्वरस्य महात्मनः । स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ २२ ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः। यतस्तण्डि: पुरा प्राप तेन तण्डिकृतोऽभवत् ॥२३ स्वर्गाश्चैवात्र भूलोकं तण्डिना ह्यवतारितः । सर्वमङ्गळमाङ्गल्यं सर्वपापप्रणाशनम् ॥२४
निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् । ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् ॥२५ तेजसामपि यत्तेजस्तपसामपि यत्तपः । शान्तानामपि यश्शान्तो द्युतीनामपि या द्युतिः॥२६ दान्तानामपि यो दान्तो धीमतामपि या च धीः । देवानामपि यो देव ऋषीणामपि यस्त्वृषिः ॥ २७ यज्ञानामपि यो यज्ञशिशवानामपि यश्शिवः । रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥२८ योगिनामपि यो योगी कारणानां च कारणम् । यतो लोकास्सम्भवन्ति न भवन्ति यतः पुनः।। २९ सर्वभूतात्मभूतस्य हरस्यामिततेजसः । अष्टोत्तरसहस्रं तु नाम्नां सर्वस्य मे शृणु ॥३० यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि । स्थिर: स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ॥ ३१ सर्वात्मा सर्वविख्यातः सर्वस्सर्वकरो भवः । जटी चर्मी शिखण्डी च सर्वाङ्गस्सर्वभावनः ॥ ३२
हरश्च हरिणाक्षश्व सर्वभूतहरः प्रभुः। प्रवृत्तिश्च निवृत्तिश्च नियतश्शाश्वतो ध्रुवः ॥३३ श्मशानवासी भगवान् खचरो गोचरोऽर्दनः । अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ॥३४ उन्मत्तवेषः प्रच्छन्नस्सर्वलोकप्रजापतिः। महारूपो महाकायो वृषरूपो महायशाः ॥३५ महात्मा सर्वभूतात्मा विश्वरूपो महाहनु । लोकपालोऽन्तर्हितात्मा प्रसादो नीललोहितः ॥३६ पवित्रं च महांश्चैव नियमो नियमाश्रितः। सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः ॥३७ सहस्राक्षो विशालाक्षस्सोमो नक्षत्रसाधकः । चन्द्रस्सूर्यश्शनिः केतुर्ग्रहो ग्रहपतिर्वरः ॥३८ आदिरन्तो लयः कर्ता मृगबाणार्पणोऽनघः । महातपा घोरतपा अदीनो दीनसाधकः ॥ ३९ संवत्सरकरो मन्त्रः प्रमाणं परमं तपः। योगी योज्यो महाबीजो महारेता महाबलः ॥ ४०
सुवर्णरेतास्सर्वज्ञस्सुबीजो बीजवाहनः । दशबाहुस्स्वनिमिषो नीलकण्ठ उमापतिः॥४१ विश्वरूपस्वयंश्रेष्ठो बलवीरो बलो गणः । गणकर्ता गणपतिर्दिग्वासाः काम एव च ॥ ४२ मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः। कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ॥ ४३ अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् । सुवहस्तस्सुरूपश्च तेजस्तेजस्करो निधिः ॥४४ उष्णीषी व सुवक्त्रश्च उदग्रो विनतस्तथा । दीर्घश्च हरिकेशश्च सुतीर्थ: कृष्ण एव च ॥४५ सृगालरूपः सिद्धार्थो मुण्डस्सर्वशुभङ्करः । अजश्च बहुरूपश्च गङ्गाधारी कपर्द्यपि ॥४६ ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभः स्थलः । त्रिजटश्चीरवासाश्च रुद्रस्सेनापतिर्विभुः ॥४७ नक्तञ्चरोऽहश्चरश्च तिग्ममन्युस्सुवर्चसः । गजहा दैत्यहा कालो लोकधाता गुणाकरः॥ ४८
सिंहशार्दूलरूपश्च व्याघ्रचर्माम्बरावृतः । कालयोगी महानाथस्सर्वकामश्चतुष्पथः ॥४९ निशाचरः प्रेतराजो भूतचारी महेश्वरः। बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ॥५० नृत्यप्रियो नित्यनर्तो नर्तकस्सवलालसः। महाघोरतपाश्शूरो नित्योऽनीहो निरालयः॥ ५१ सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः । अमर्षणोऽमर्षणात्मा यज्ञहा कामनाशकः ॥ ५२ दक्षयागापहारी च सुसहो मध्यमस्तथा । तेजोपहारी बलहा मुदितोऽर्थोऽजिता वरः ॥ ५३ गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः । न्यग्रोधरूपो न्यग्रोधवृक्षकर्णस्थितिर्विभुः ॥ ५४ सुतीक्ष्णदशनश्चैव महाकायो महाननः । विष्वक्सेनो हरियज्ञस्संयुगापीडवाहनः ॥५५ तीक्ष्णतापश्च हर्यश्वस्सहायः कर्मकालवित् । विष्णुप्रसादितो यज्ञस्समुद्रो बडबामुखः ॥५६
हुताशनसहायश्च प्रशान्तात्मा हुताशनः । उग्रतेजा महातेजा जन्यो विजयकालवित् ॥५७ ज्योतिषामयनं सिद्धिस्सर्वविग्रह एव च । शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ॥५८ वैष्णवः प्रजवी ताळी खेली कालकटङ्कटः। नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः || ५९ प्रजापतिर्विश्वबाहुर्विभागः सर्वतोमुखः। विमोचनस्सुमरणो हिरण्यकवचोद्भवः ॥६० मेघजो बलचारीच महीचारी स्तुतस्तथा । सर्वतूर्यविनोदी च सर्ववाद्यपरिग्रहः ॥ ६१ व्याळरूपो गुहावासी ग्रहमाली तरङ्गवित् । त्रिदशः कालदृक्कर्मसर्वबन्धविमोचनः ॥ ६२ बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः। सांख्यप्रसादो दुर्वासास्सर्वसाधुनिषेवितः ॥६३ प्रस्कन्दनो विभागज्ञो ह्यतुल्यो यज्ञभागवित् । सर्ववासस्सर्वचारी दुर्वासा वासवोऽमरः ॥ ६४ हैमो हेमकरो यज्ञस्सर्वधारी धरोत्तमः । लोहिताक्षो महाक्षश्व विजयाक्षो विशारदः ।। ६५
संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः । मुख्योऽमुख्यश्च देहश्च काहळिस्सर्वकामदः ॥ ६६ सर्वकालप्रसादश्च सुबलो बलरूपभृत् । सर्वकामप्रदश्चैव सर्वदस्सर्वतोमुखः ॥६७ आकाशनिर्विरूपश्च निपातो ह्यवशः खगः । रौद्ररूपोंऽशुरादित्यो बहुरश्मिस्सुवर्चसी ॥ ६८ वसुवेगो महावेगो मनोवेगो निशाचरः। सर्ववासी श्रियावासी उपदेशकरोऽकरः ॥ ६९ मुनिरात्मा निरालोकस्सम्भग्नश्च सहस्रदः । पक्षी च प्लक्षरूपश्च अतिदीप्तो विशां पतिः॥७० उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः। वामदेवश्च वामश्च प्राग्दक्षिण उदङ्मुखः ॥७१ सिद्धयोगी महर्षिश्च सिद्धार्थस्सिद्धसाधकः। भिक्षुश्च भिक्षुरूपश्च विपगो मृदुरव्ययः ॥७२ महासेनो विशाखश्च षष्टिभागो गवां पतिः । वज्रहस्तश्व विष्कम्भी चमूस्तम्भन एव च ॥७३
वृत्तवृत्तकरस्तालो मधुर्मधुकलोचनः । वाचस्पत्यो वाजसनो नित्यमाश्रितपूजितः ॥७४ ब्रह्मचारी लोकचारी सर्वचारी विचारवित् । ईशान ईश्वरः कालो निशाचारी पिनाकभृत् ॥ ७५ निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः। नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ॥ ७६ भगहारी निहन्ता च कालो ब्रह्मा पितामहः । चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ॥७७ लिङ्गाध्यक्षस्सुराध्यक्षो योगाध्यक्षो रुगावहः । बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ॥७८ इतिहासस्सकल्पश्च गौतमोऽथ निशाकरः । दन्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः॥७९ लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः । अक्षरं परमं ब्रह्म बलवान् शक्त एव च ॥८० नीतिर्ह्यनीतिश्शुद्धामा शुद्धो मान्यो गतागतः । बहुप्रसादस्सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ॥८१
वेदकारो मन्त्रकारो विद्धान्समरमर्दनः। महामेघनिवासी च महाघोरो वशीकरः ॥ ८२ अग्निज्वालो महाज्वालो ह्यतिधूम्रो हुतो हविः । वृषभश्शङ्करो नित्यं वर्चस्वी धूमकेतनः ॥ ८३ नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः। स्वस्तिदस्स्वस्तिभागश्च भागी भागकरो लघुः॥ ८४ उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः । कृष्णवर्णस्सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ॥८५ महापादो महाहस्तो महाकायो महायशाः । महामूर्धी महामात्रो महानेत्री निशालयः ॥८६ महान्तको महाकर्णो महोष्ठश्च महाहनुः । महानासो महाकम्बुर्महाग्रीवश्श्मशानभाक् ॥८७ महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः । लम्बनो लम्बितोष्ठश्च महामाय: पयोनिधिः॥ ८८ महादन्तो महादंष्ट्रो महाजिह्वो महामुखः । महानखो महारोमा महाकेशो महाजटः ॥८९
प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः । स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ॥ ९० वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः । गण्डली मेरुधामा च देवाधिपतिरेव च ॥९१ अथर्वशीर्षस्सामास्य ऋक्सहस्रामितेक्षणः । यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ॥ ९२ अमोघार्थः प्रसादश्च अभिगम्यस्सुदर्शनः । उपकारः प्रियस्सर्वः कनकः काञ्चनच्छविः ॥ ९३ नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः । द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ॥९४ नक्तं कलिश्च कालश्च मकरः कालपूजितः। सगणो गणकारश्च भूतवाहनसारथिः ॥ ९५ भस्माशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः । लोकपालस्तथा लोको महात्मा सर्वपूजितः ॥ ९६ शुक्लस्त्रिशुक्लसम्पन्नश्शुचिर्भूतनिषेवितः । आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ॥९७
विशालशाखस्ताम्रोष्ठोह्यम्बुजालस्सुनिश्चलः । कपिला कपिशश्शुक्ल आयुश्चैव परोऽपरः ॥९८ गन्धर्वो ह्यदितिस्तार्क्ष्यस्सुविज्ञेयस्सुशारदः । परश्वधायुधो देवो ह्यनुकारी सुबान्धवः ॥९९ तुम्बवीणो महाक्रोधो ऊर्ध्वरेता जलेशयः। उग्रो वशङ्करो वंशो वंशनादो ह्यनिन्दितः ॥ १०० सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः । बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ॥ १०१ स यज्ञारिस्स कामारिर्महादंष्ट्रो महायुधः । बहुधाऽनिन्दितस्सर्वश्शङ्करश्चन्द्रशेखरः ॥१०२ अमरेशो महादेवो विश्वदेवस्सुरारिहा । अहिर्बुध्न्योऽनिलाभश्च चेकितानो हरिस्तथा ॥१०३ अजैकपाच्च कापाली त्रिशङ्कुरजितशिशवः । धन्वन्तरिर्धूमकेतुस्स्कन्दो वैश्रवणस्तथा ॥१०४ धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः । प्रभावस्सर्वगो वायुरर्यमा सविता रविः ॥ १०५
उषङ्गुश्च विधाता च मान्धाता भूतभावनः । विभुर्वर्णविभावी च सर्वकामगुणावहः ॥ १०६ पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः। बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ॥ १०७ कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः । सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः ॥ १०८ देवदेवस्सुखासक्तस्सदसत्सर्वरत्नवित् । कैलासगिरिवासी च हिमवद्भिरिसंश्रयः ॥१०९ कूलहारी कूलकर्ता बहुविद्यो बहुदः। वणिजो वर्धकी वृक्षो वकुळश्चन्दनच्छदः ॥ ११० सारग्रीचो महाजत्रुरलोलश्च महौषधः । सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ॥ १११ सिंहनादस्सिंहदंष्ट्रस्सिंहगस्सिंहवाहनः । प्रभावात्मा जगत्कालः कालो लोकहितस्तरः॥११२ साराङ्गो नवचक्राङ्गः केतुमाली सभावनः । भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥११३
वर्धितस्सर्वभूतानां निलयश्च विभुर्भवः । अमोघस्संयतो ह्यश्वो भोजन: प्राणधारणः ॥११४ धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः । गोपाली गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ११५ हिरण्यबाहुश्च तथा गुहापालः प्रवेशकः । प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ११६ गान्धारश्च सुवासश्च तपस्सक्तो रतिर्नरः । महागीतो महानृत्यो ह्य्प्सरोगणसेवितः ॥ ११७ महाकेतुर्महाधातुर्नैकसानुचरश्चलः । आवेदनीय आवेशः सर्वगन्धसुखावहः ॥ ११८ तोरणस्तारणो वातः परिधीपतिखेचरः। संयोगो वर्धनो वृद्धो ह्यतिवृद्धो गुणाधिकः ॥११९ नित्य आत्मा सहायश्च देवासुरपतिः पतिः । युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ॥१२० आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः। वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥१२१
शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः। अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ १२२ समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः। निर्जीवो जीवनो मन्त्रश्शुभाक्षो बहुकर्कशः ॥१२३ रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् । मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥१२४ आरोहणोऽधिरोहश्व शीलधारी महायशाः। सेनाकल्पे महाकल्पे योगो योगकरो हरिः ॥ १२५ युगरूपो महारूपो महानागहनो वधः । न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥१२६ बहुमालो महामालश्शशी हरिसुलोचनः । विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ।। १२७ त्रिलोचनो विषण्णाङ्गो मणिविद्धौ जटाधरः । बिन्दुर्विसर्गस्सुमुखः शरस्सर्वायुधस्सहः ।। १२८ निवेदनस्सुखाजातः सुगन्धारो महाधनुः । गन्धपाली च भगवानुत्थानस्सर्वकर्मणाम् ॥ १२९
मन्थानो बहुळो वायुः सकलस्सर्वलोचनः । तलस्ताल करस्थाली ऊर्ध्वसंहननो महान् ॥ १३० छत्रं सुछत्रो विख्यातो लोकस्सर्वाश्रयः क्रमः । मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥१३१ हर्यक्षः ककुभो वज्री शतजिह्वस्सहस्रपात् । सहस्रमूर्धा देवेन्द्रस्सर्वदेवमयो गुरुः ॥१३२ सहस्रबाहुस्सर्वाङ्गः शरण्यस्सर्वलोककृत् । पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गळ: ॥१३३ ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् । पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १३४ गभस्तिर्ब्रह्मकृद्ब्रह्म ब्रह्मविद्ब्राह्मणो गतिः। अनन्तरूपश्चैकात्मा तिग्मतेजास्स्वयम्भुवः ॥ १३५ ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः । चन्दनी पद्मनाळाग्रस्सुरभ्युत्तरणो नरः ॥१३६ कर्णिकारमहास्रग्वी नीलमौळि: पिनाकभृत् । उमापतिरुमाकान्तो जाह्नवीभृदुमाधवः ॥१३७
वरो वराहो वरदो वरेण्यस्सुमहास्वनः । महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गळः ॥१३८ प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् । सर्वपार्श्वसुखस्त्र्यक्षो धर्मसाधारणो वरः॥१३९ चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः । साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः ॥१४० व्यासस्सर्गस्सुसङ्क्षेपो विस्तरः पर्ययो नरः । ऋतुस्संवत्सरो मास: पक्षस्संख्यासमापनः ॥१४१ कळा काष्ठा लवा मात्रा मुहूर्ताह:क्षपाक्षणाः । विश्वक्षेत्रं प्रजाबीज लिङ्गमाद्यस्सुनिर्गमः ॥१४२ सदसद्व्यक्तमव्यक्तं पिता माता पितामहः । स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥१४३ निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः । देवासुरविनिर्माता देवासुरपरायणः ॥१४४ देवासुरगुरुर्देवो देवासुरनमस्कृतः । देवासुरमहामात्रो देवासुरगणाश्रयः ॥१४५
देवासुरगणाध्यक्षो देवासुरगणाग्रणीः । देवादिदेवो देवर्षिर्देवासुरवरप्रदः ॥१४६ देवासुरेश्वरो विश्वो देवासुरमहेश्वरः । सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः ॥ १४७ ऊद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः । ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः॥१४८ विबुधोऽग्रवरस्सूक्ष्मस्सर्वदेवस्तपोमयः । सुयुक्तश्शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥१४९ गुहः कान्तो निजस्सर्गः पवित्रं सर्वपावनः । शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १५० अभिरामस्सुरगणो विरामस्सर्वसाधनः । ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १११ स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः । सिद्धार्थस्सिद्धभूतार्थोऽचिन्त्यस्सत्यव्रतश्शुचिः॥१५२ व्रतधिपः परं ब्रह्म भक्तानुग्रहकारकः । विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥१५३
यथाप्रधानं भगवानिति भक्त्त्या स्तुतो मया । यं न ब्रह्मादयो देवा विदुस्तत्वेन नर्षयः॥ १५४ स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् । भक्त्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥१५५ ततोऽभ्यनुज्ञा सम्प्राप्य स्तुतो मतिमतां वरः। शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥१५६ नित्ययुक्तश्शुचिर्भूतः प्राप्नोत्यात्मानमात्मना । एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ॥१५७ ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्पराः । स्तूयमानो महादेवस्तुष्यते नियतात्मभिः ॥ १५८ भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः। तथैव च मनुष्येषु ये मनुष्या: प्रधानतः ॥ १५९ आस्तिकाश्श्रद्दधानाश्च बहुभिर्जन्मभिस्स्तवैः। भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् ॥ १६० कर्मणा मनसा वाचा भावेनामिततेजसः । शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ॥१६१
उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः । शृण्वन्तश्श्रावयन्तश्च कथयन्तश्च ते भवम् ॥ १६२ स्तुवन्तस्स्तूयमानाश्च तुष्यन्ति च रमन्ति च । जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ १६३ जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते । उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ १६४ भाविनः कारणं चास्य सर्वमुक्तस्य सर्वदा । एतद्देवेषु दुष्पापं मनुष्येषु न लभ्यते ॥१६५ निर्विघ्ना निर्मला रुद्रे भक्तिरव्यभिचारिणी। तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ॥ १६६ येन यान्ति परां सिद्धिं तद्भावगतचेतसः । यं सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् ॥१६७ प्रपन्नवत्सलो देवसंसारात्तान् समुद्धरेत् । एवमन्ये न कुर्वन्ति देवास्संसारमोचनम् ॥ १६८ मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् । इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः ॥ १६९
कृत्तिवासास्स्तुतः कृष्ण तण्डिना शुभबुद्धिना। स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ॥१७० गीयते च स बुध्येत ब्रह्मशङ्करसन्निधौ । इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् ॥ १७१ योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा । एवमेतत्पठन्ते य एकभक्त्या तु शङ्करम् ॥ १७२ या गतिस्सांख्ययोगानां व्रजन्ते तां गतिं तथा । स्तवमेनं प्रयत्नेन सदा रुद्रस्य सन्निधौ ॥१७३ अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् । एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् ॥१७४ ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे। मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत्॥१७५ महता तपसा प्राप्तं तण्डिना ब्रह्मसद्मनि । तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः॥१७६ वैवस्वताय मनवे गौतमः प्राह माधव । नारायणाय साध्याय मनुरिष्टाय धीमते ॥ १७७
यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः। नाचिकेताय भगवानाह वैवस्वतो यमः॥ १७८ मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत । मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन ॥१७९ तवाप्यहममित्रनघ्न स्तवं दद्यां ह्यविश्रुतम् । स्वर्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् ॥ १८० नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः । पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥ यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः। अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ १८२
Meaning & context
The names move through Shiva's ascetic, cosmic, protective, temporal and liberating forms; long passages are grouped into recitation sections with bilingual thematic meaning.