Sahasranama

शिवसहस्रनामस्तोत्रम्

Shiva Sahasranama Stotram

The Mahabharata tradition's extended litany of Shiva's thousand and eight names.

Dedicated toशिवः
Sacred textOriginal Sanskrit

वन्दे शंभुमुमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं वन्दे पशूनां पतिम् ।वन्दे सूर्यशशाङ्कवह्निनयनं वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं वन्दे शिवं शङ्करम् वासुदेवः- ततस्स प्रयतो भूत्वा मम तात युधिष्ठिर ।प्राञ्जलिः प्राह विप्रर्षिनामसंग्रहमादितः ॥उपमन्यु:- ब्रह्मप्रोक्तैर्ऋषिप्रोक्तैर्वेदवेदाङ्गसंभवैः।सर्वलोकेषु विख्यातं स्तुत्यं स्तोष्यामि नामभिः ॥महद्भिर्विहितैस्सत्यैस्सिद्धैस्सर्वार्थसाधकैः।ऋषिणा तण्डिना भक्त्या कृतैर्वेदकृतात्मना ॥यथोक्तैस्साधुभिः ख्यातैर्मुनिभिस्तत्त्वदर्शिभिः ।प्रवरं प्रथम स्वर्ग्यं सर्वभूतहितं शुभम् ॥श्रुतैस्सर्वत्र जगति ब्रह्मलोकावतारितैः।सत्यैस्तत्परमं ब्रह्म ब्रह्मप्रोक्तैस्सनातनम् ॥५वक्ष्ये यदुकुलश्रेष्ठ शृणुष्वावहितो मम ।वरयैनं भवं देवं भक्तस्वं परमेश्वरम् ॥६तेन ते श्रावयिष्यामि यत्तद्ब्रह्म सनातनम् ।न शक्यं विस्तरात्कृत्स्नं वक्तुं शर्वस्य केनचित् ॥ ७युक्तेनापि विभूतीनामपि वर्षशतैरपि ।यस्यादिमध्यमान्तानि गम्यन्ते न सुरैरपि ॥८

कस्तस्य शक्नुयाद्वक्तुं गुणान् कार्त्स्न्येन माधव ।किन्तु देवस्य महतस्सङ्क्षिप्तार्थपदाक्षरम् ॥९शक्तितश्चरितं वक्ष्ये प्रसादात्तस्य धीमतः।अप्राप्य तु ततोऽनुज्ञां न शक्यः स्तोतुमीश्वरः ॥१०यदा तेनाभ्यनुज्ञातस्स्तुतो वै स तदा मया ।अनादिनिधनस्याहं जगद्योनेर्महात्मनः ॥११नाम्नां किञ्चित्समुद्देशं वक्ष्याम्यव्यक्तयोनिनः ।वरदस्य वरेण्यस्य विश्वरूपस्य धीमतः ॥ १२शृणु नाम्नां चयं कृष्ण यदुक्तं पद्मयोनिना ।दशनामसहस्राणि यान्याह प्रपितामहः ॥ १३तानि निर्मथ्य मनसा दध्नो घृतमिवोद्धृतम् ।गिरेस्सारं यथा हेम पुष्पसारं यथा मधु ॥ १४घृतात्सारं यथा मण्डं तथैतस्सारमुद्धृतम् ।सर्वपापापहमिदं चतुर्वेदसमन्वितम् ॥ १५प्रयत्नेनाधिगन्तव्यं धार्ंय च प्रयतात्मना ।माङ्गळ्यं पौष्टिकं चैव रक्षोघ्नं पावनं महत् ॥ १६

इदं भक्ताय दातव्यं श्रद्धयाऽनास्तिकाय च ।नाश्रद्दधानरूपाय नास्तिकायाजितात्मने ॥१७यश्चाभ्यसूयते देवं कारणात्मानमीश्वरम् ।स कृष्ण नरकं याति सह पूर्वैस्सहात्मजः ॥ १८इदं ध्यानमिदं योगमिदं ध्येयमनुत्तमम् ।इदं जप्यमिदं ज्ञानं रहस्यमिदमुत्तमम् ॥१९यं ज्ञात्वा ह्यन्तकालेऽपि गच्छेत परमां गतिम् ।पवित्रं मङ्गळं मेध्यं कल्याणमिदमुत्तमम् ॥२०इदं ब्रह्मा पुरा कृत्वा सर्वलोकपितामहः ।सर्वस्तवानां राजत्वे दिव्यानां समकल्पयत् ॥ २१तदाप्रभृति चैवायमीश्वरस्य महात्मनः ।स्तवराज इति ख्यातो जगत्यमरपूजितः ॥ २२ब्रह्मलोकादयं स्वर्गे स्तवराजोऽवतारितः।यतस्तण्डि: पुरा प्राप तेन तण्डिकृतोऽभवत् ॥२३स्वर्गाश्चैवात्र भूलोकं तण्डिना ह्यवतारितः ।सर्वमङ्गळमाङ्गल्यं सर्वपापप्रणाशनम् ॥२४

निगदिष्ये महाबाहो स्तवानामुत्तमं स्तवम् ।ब्रह्मणामपि यद्ब्रह्म पराणामपि यत्परम् ॥२५तेजसामपि यत्तेजस्तपसामपि यत्तपः ।शान्तानामपि यश्शान्तो द्युतीनामपि या द्युतिः ॥२६दान्तानामपि यो दान्तो धीमतामपि या च धीः ।देवानामपि यो देव ऋषीणामपि यस्त्वृषिः ॥ २७यज्ञानामपि यो यज्ञशिशवानामपि यश्शिवः ।रुद्राणामपि यो रुद्रः प्रभा प्रभवतामपि ॥२८योगिनामपि यो योगी कारणानां च कारणम् ।यतो लोकास्सम्भवन्ति न भवन्ति यतः पुनः ।। २९सर्वभूतात्मभूतस्य हरस्यामिततेजसः ।अष्टोत्तरसहस्रं तु नाम्नां सर्वस्य मे शृणु ॥३०यच्छ्रुत्वा मनुजव्याघ्र सर्वान् कामानवाप्स्यसि ।स्थिर: स्थाणुः प्रभुर्भीमः प्रवरो वरदो वरः ॥ ३१सर्वात्मा सर्वविख्यातः सर्वस्सर्वकरो भवः ।जटी चर्मी शिखण्डी च सर्वाङ्गस्सर्वभावनः ॥ ३२

हरश्च हरिणाक्षश्व सर्वभूतहरः प्रभुः।प्रवृत्तिश्च निवृत्तिश्च नियतश्शाश्वतो ध्रुवः ॥३३श्मशानवासी भगवान् खचरो गोचरोऽर्दनः ।अभिवाद्यो महाकर्मा तपस्वी भूतभावनः ॥३४उन्मत्तवेषः प्रच्छन्नस्सर्वलोकप्रजापतिः।महारूपो महाकायो वृषरूपो महायशाः ॥३५महात्मा सर्वभूतात्मा विश्वरूपो महाहनु ।लोकपालोऽन्तर्हितात्मा प्रसादो नीललोहितः ॥३६पवित्रं च महांश्चैव नियमो नियमाश्रितः।सर्वकर्मा स्वयंभूत आदिरादिकरो निधिः ॥३७सहस्राक्षो विशालाक्षस्सोमो नक्षत्रसाधकः ।चन्द्रस्सूर्यश्शनिः केतुर्ग्रहो ग्रहपतिर्वरः ॥३८आदिरन्तो लयः कर्ता मृगबाणार्पणोऽनघः ।महातपा घोरतपा अदीनो दीनसाधकः ॥ ३९संवत्सरकरो मन्त्रः प्रमाणं परमं तपः।योगी योज्यो महाबीजो महारेता महाबलः ॥ ४०

सुवर्णरेतास्सर्वज्ञस्सुबीजो बीजवाहनः ।दशबाहुस्स्वनिमिषो नीलकण्ठ उमापतिः ॥४१विश्वरूपस्वयंश्रेष्ठो बलवीरो बलो गणः ।गणकर्ता गणपतिर्दिग्वासाः काम एव च ॥ ४२मन्त्रवित्परमो मन्त्रः सर्वभावकरो हरः।कमण्डलुधरो धन्वी बाणहस्तः कपालवान् ॥ ४३अशनी शतघ्नी खड्गी पट्टिशी चायुधी महान् ।सुवहस्तस्सुरूपश्च तेजस्तेजस्करो निधिः ॥४४उष्णीषी व सुवक्त्रश्च उदग्रो विनतस्तथा ।दीर्घश्च हरिकेशश्च सुतीर्थ: कृष्ण एव च ॥४५सृगालरूपः सिद्धार्थो मुण्डस्सर्वशुभङ्करः ।अजश्च बहुरूपश्च गङ्गाधारी कपर्द्यपि ॥४६ऊर्ध्वरेता ऊर्ध्वलिङ्ग ऊर्ध्वशायी नभः स्थलः ।त्रिजटश्चीरवासाश्च रुद्रस्सेनापतिर्विभुः ॥४७नक्तञ्चरोऽहश्चरश्च तिग्ममन्युस्सुवर्चसः ।गजहा दैत्यहा कालो लोकधाता गुणाकरः ॥ ४८

सिंहशार्दूलरूपश्च व्याघ्रचर्माम्बरावृतः ।कालयोगी महानाथस्सर्वकामश्चतुष्पथः ॥४९निशाचरः प्रेतराजो भूतचारी महेश्वरः।बहुभूतो बहुधरः स्वर्भानुरमितो गतिः ॥५०नृत्यप्रियो नित्यनर्तो नर्तकस्सवलालसः।महाघोरतपाश्शूरो नित्योऽनीहो निरालयः ॥ ५१सहस्रहस्तो विजयो व्यवसायो ह्यतन्द्रितः ।अमर्षणोऽमर्षणात्मा यज्ञहा कामनाशकः ॥ ५२दक्षयागापहारी च सुसहो मध्यमस्तथा ।तेजोपहारी बलहा मुदितोऽर्थोऽजिता वरः ॥ ५३गम्भीरघोषो गम्भीरो गम्भीरबलवाहनः ।न्यग्रोधरूपो न्यग्रोधवृक्षकर्णस्थितिर्विभुः ॥ ५४सुतीक्ष्णदशनश्चैव महाकायो महाननः ।विष्वक्सेनो हरियज्ञस्संयुगापीडवाहनः ॥५५तीक्ष्णतापश्च हर्यश्वस्सहायः कर्मकालवित् ।विष्णुप्रसादितो यज्ञस्समुद्रो बडबामुखः ॥५६

हुताशनसहायश्च प्रशान्तात्मा हुताशनः ।उग्रतेजा महातेजा जन्यो विजयकालवित् ॥५७ज्योतिषामयनं सिद्धिस्सर्वविग्रह एव च ।शिखी मुण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली ॥५८वैष्णवः प्रजवी ताळी खेली कालकटङ्कटः।नक्षत्रविग्रहमतिर्गुणबुद्धिर्लयोऽगमः || ५९ प्रजापतिर्विश्वबाहुर्विभागः सर्वतोमुखः।विमोचनस्सुमरणो हिरण्यकवचोद्भवः ॥६०मेघजो बलचारीच महीचारी स्तुतस्तथा ।सर्वतूर्यविनोदी च सर्ववाद्यपरिग्रहः ॥ ६१व्याळरूपो गुहावासी ग्रहमाली तरङ्गवित् ।त्रिदशः कालदृक्कर्मसर्वबन्धविमोचनः ॥ ६२बन्धनस्त्वसुरेन्द्राणां युधि शत्रुविनाशनः।सांख्यप्रसादो दुर्वासास्सर्वसाधुनिषेवितः ॥६३प्रस्कन्दनो विभागज्ञो ह्यतुल्यो यज्ञभागवित् ।सर्ववासस्सर्वचारी दुर्वासा वासवोऽमरः ॥ ६४हैमो हेमकरो यज्ञस्सर्वधारी धरोत्तमः ।लोहिताक्षो महाक्षश्व विजयाक्षो विशारदः ।। ६५

संग्रहो निग्रहः कर्ता सर्पचीरनिवासनः ।मुख्योऽमुख्यश्च देहश्च काहळिस्सर्वकामदः ॥ ६६सर्वकालप्रसादश्च सुबलो बलरूपभृत् ।सर्वकामप्रदश्चैव सर्वदस्सर्वतोमुखः ॥६७आकाशनिर्विरूपश्च निपातो ह्यवशः खगः ।रौद्ररूपोंऽशुरादित्यो बहुरश्मिस्सुवर्चसी ॥ ६८वसुवेगो महावेगो मनोवेगो निशाचरः।सर्ववासी श्रियावासी उपदेशकरोऽकरः ॥ ६९मुनिरात्मा निरालोकस्सम्भग्नश्च सहस्रदः ।पक्षी च प्लक्षरूपश्च अतिदीप्तो विशां पतिः ॥७०उन्मादो मदनः कामो ह्यश्वत्थोऽर्थकरो यशः।वामदेवश्च वामश्च प्राग्दक्षिण उदङ्मुखः ॥७१सिद्धयोगी महर्षिश्च सिद्धार्थस्सिद्धसाधकः।भिक्षुश्च भिक्षुरूपश्च विपगो मृदुरव्ययः ॥७२महासेनो विशाखश्च षष्टिभागो गवां पतिः ।वज्रहस्तश्व विष्कम्भी चमूस्तम्भन एव च ॥७३

वृत्तवृत्तकरस्तालो मधुर्मधुकलोचनः ।वाचस्पत्यो वाजसनो नित्यमाश्रितपूजितः ॥७४ब्रह्मचारी लोकचारी सर्वचारी विचारवित् ।ईशान ईश्वरः कालो निशाचारी पिनाकभृत् ॥ ७५निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः।नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः ॥ ७६भगहारी निहन्ता च कालो ब्रह्मा पितामहः ।चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च ॥७७लिङ्गाध्यक्षस्सुराध्यक्षो योगाध्यक्षो रुगावहः ।बीजाध्यक्षो बीजकर्ता अध्यात्मानुगतो बलः ॥७८इतिहासस्सकल्पश्च गौतमोऽथ निशाकरः ।दन्भो ह्यदम्भो वैदम्भो वश्यो वशकरः कलिः ॥७९लोककर्ता पशुपतिर्महाकर्ता ह्यनौषधः ।अक्षरं परमं ब्रह्म बलवान् शक्त एव च ॥८०नीतिर्ह्यनीतिश्शुद्धामा शुद्धो मान्यो गतागतः ।बहुप्रसादस्सुस्वप्नो दर्पणोऽथ त्वमित्रजित् ॥८१

वेदकारो मन्त्रकारो विद्धान्समरमर्दनः।महामेघनिवासी च महाघोरो वशीकरः ॥ ८२अग्निज्वालो महाज्वालो ह्यतिधूम्रो हुतो हविः ।वृषभश्शङ्करो नित्यं वर्चस्वी धूमकेतनः ॥ ८३नीलस्तथाङ्गलुब्धश्च शोभनो निरवग्रहः।स्वस्तिदस्स्वस्तिभागश्च भागी भागकरो लघुः ॥ ८४उत्सङ्गश्च महाङ्गश्च महागर्भपरायणः ।कृष्णवर्णस्सुवर्णश्च इन्द्रियं सर्वदेहिनाम् ॥८५महापादो महाहस्तो महाकायो महायशाः ।महामूर्धी महामात्रो महानेत्री निशालयः ॥८६महान्तको महाकर्णो महोष्ठश्च महाहनुः ।महानासो महाकम्बुर्महाग्रीवश्श्मशानभाक् ॥८७महावक्षा महोरस्को ह्यन्तरात्मा मृगालयः ।लम्बनो लम्बितोष्ठश्च महामाय: पयोनिधिः ॥ ८८महादन्तो महादंष्ट्रो महाजिह्वो महामुखः ।महानखो महारोमा महाकेशो महाजटः ॥८९

प्रसन्नश्च प्रसादश्च प्रत्ययो गिरिसाधनः ।स्नेहनोऽस्नेहनश्चैव अजितश्च महामुनिः ॥ ९०वृक्षाकारो वृक्षकेतुरनलो वायुवाहनः ।गण्डली मेरुधामा च देवाधिपतिरेव च ॥९१अथर्वशीर्षस्सामास्य ऋक्सहस्रामितेक्षणः ।यजुःपादभुजो गुह्यः प्रकाशो जङ्गमस्तथा ॥ ९२अमोघार्थः प्रसादश्च अभिगम्यस्सुदर्शनः ।उपकारः प्रियस्सर्वः कनकः काञ्चनच्छविः ॥ ९३नाभिर्नन्दिकरो भावः पुष्करस्थपतिः स्थिरः ।द्वादशस्त्रासनश्चाद्यो यज्ञो यज्ञसमाहितः ॥९४नक्तं कलिश्च कालश्च मकरः कालपूजितः।सगणो गणकारश्च भूतवाहनसारथिः ॥ ९५भस्माशयो भस्मगोप्ता भस्मभूतस्तरुर्गणः ।लोकपालस्तथा लोको महात्मा सर्वपूजितः ॥ ९६शुक्लस्त्रिशुक्लसम्पन्नश्शुचिर्भूतनिषेवितः ।आश्रमस्थः क्रियावस्थो विश्वकर्ममतिर्वरः ॥९७

विशालशाखस्ताम्रोष्ठोह्यम्बुजालस्सुनिश्चलः ।कपिला कपिशश्शुक्ल आयुश्चैव परोऽपरः ॥९८गन्धर्वो ह्यदितिस्तार्क्ष्यस्सुविज्ञेयस्सुशारदः ।परश्वधायुधो देवो ह्यनुकारी सुबान्धवः ॥९९तुम्बवीणो महाक्रोधो ऊर्ध्वरेता जलेशयः।उग्रो वशङ्करो वंशो वंशनादो ह्यनिन्दितः ॥ १००सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः ।बन्धनो बन्धकर्ता च सुबन्धनविमोचनः ॥ १०१स यज्ञारिस्स कामारिर्महादंष्ट्रो महायुधः ।बहुधाऽनिन्दितस्सर्वश्शङ्करश्चन्द्रशेखरः ॥१०२अमरेशो महादेवो विश्वदेवस्सुरारिहा ।अहिर्बुध्न्योऽनिलाभश्च चेकितानो हरिस्तथा ॥१०३अजैकपाच्च कापाली त्रिशङ्कुरजितशिशवः ।धन्वन्तरिर्धूमकेतुस्स्कन्दो वैश्रवणस्तथा ॥१०४धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः ।प्रभावस्सर्वगो वायुरर्यमा सविता रविः ॥ १०५

उषङ्गुश्च विधाता च मान्धाता भूतभावनः ।विभुर्वर्णविभावी च सर्वकामगुणावहः ॥ १०६पद्मनाभो महागर्भश्चन्द्रवक्त्रोऽनिलोऽनलः।बलवांश्चोपशान्तश्च पुराणः पुण्यचञ्चुरी ॥ १०७कुरुकर्ता कुरुवासी कुरुभूतो गुणौषधः ।सर्वाशयो दर्भचारी सर्वेषां प्राणिनां पतिः ॥ १०८देवदेवस्सुखासक्तस्सदसत्सर्वरत्नवित् ।कैलासगिरिवासी च हिमवद्भिरिसंश्रयः ॥१०९कूलहारी कूलकर्ता बहुविद्यो बहुदः।वणिजो वर्धकी वृक्षो वकुळश्चन्दनच्छदः ॥ ११०सारग्रीचो महाजत्रुरलोलश्च महौषधः ।सिद्धार्थकारी सिद्धार्थश्छन्दोव्याकरणोत्तरः ॥ १११सिंहनादस्सिंहदंष्ट्रस्सिंहगस्सिंहवाहनः ।प्रभावात्मा जगत्कालः कालो लोकहितस्तरः ॥११२साराङ्गो नवचक्राङ्गः केतुमाली सभावनः ।भूतालयो भूतपतिरहोरात्रमनिन्दितः ॥११३

वर्धितस्सर्वभूतानां निलयश्च विभुर्भवः ।अमोघस्संयतो ह्यश्वो भोजन: प्राणधारणः ॥११४धृतिमान् मतिमान् दक्षः सत्कृतश्च युगाधिपः ।गोपाली गोपतिर्ग्रामो गोचर्मवसनो हरिः ॥ ११५हिरण्यबाहुश्च तथा गुहापालः प्रवेशकः ।प्रकृष्टारिर्महाहर्षो जितकामो जितेन्द्रियः ॥ ११६गान्धारश्च सुवासश्च तपस्सक्तो रतिर्नरः ।महागीतो महानृत्यो ह्य्प्सरोगणसेवितः ॥ ११७महाकेतुर्महाधातुर्नैकसानुचरश्चलः ।आवेदनीय आवेशः सर्वगन्धसुखावहः ॥ ११८तोरणस्तारणो वातः परिधीपतिखेचरः।संयोगो वर्धनो वृद्धो ह्यतिवृद्धो गुणाधिकः ॥११९नित्य आत्मा सहायश्च देवासुरपतिः पतिः ।युक्तश्च युक्तबाहुश्च देवो दिवि सुपर्वणः ॥१२०आषाढश्च सुषाढश्च ध्रुवोऽथ हरिणो हरः।वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः ॥१२१

शिरोहारी विमर्शश्च सर्वलक्षणलक्षितः।अक्षश्च रथयोगी च सर्वयोगी महाबलः ॥ १२२समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः।निर्जीवो जीवनो मन्त्रश्शुभाक्षो बहुकर्कशः ॥१२३रत्नप्रभूतो रक्ताङ्गो महार्णवनिपानवित् ।मूलं विशालो ह्यमृतो व्यक्ताव्यक्तस्तपोनिधिः ॥१२४आरोहणोऽधिरोहश्व शीलधारी महायशाः।सेनाकल्पे महाकल्पे योगो योगकरो हरिः ॥ १२५युगरूपो महारूपो महानागहनो वधः ।न्यायनिर्वपणः पादः पण्डितो ह्यचलोपमः ॥१२६बहुमालो महामालश्शशी हरिसुलोचनः ।विस्तारो लवणः कूपस्त्रियुगः सफलोदयः ।। १२७त्रिलोचनो विषण्णाङ्गो मणिविद्धौ जटाधरः ।बिन्दुर्विसर्गस्सुमुखः शरस्सर्वायुधस्सहः ।। १२८निवेदनस्सुखाजातः सुगन्धारो महाधनुः ।गन्धपाली च भगवानुत्थानस्सर्वकर्मणाम् ॥ १२९

मन्थानो बहुळो वायुः सकलस्सर्वलोचनः ।तलस्ताल करस्थाली ऊर्ध्वसंहननो महान् ॥ १३०छत्रं सुछत्रो विख्यातो लोकस्सर्वाश्रयः क्रमः ।मुण्डो विरूपो विकृतो दण्डी कुण्डी विकुर्वणः ॥१३१हर्यक्षः ककुभो वज्री शतजिह्वस्सहस्रपात् ।सहस्रमूर्धा देवेन्द्रस्सर्वदेवमयो गुरुः ॥१३२सहस्रबाहुस्सर्वाङ्गः शरण्यस्सर्वलोककृत् ।पवित्रं त्रिककुन्मन्त्रः कनिष्ठः कृष्णपिङ्गळ: ॥१३३ब्रह्मदण्डविनिर्माता शतघ्नीपाशशक्तिमान् ।पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः ॥ १३४गभस्तिर्ब्रह्मकृद्ब्रह्म ब्रह्मविद्ब्राह्मणो गतिः।अनन्तरूपश्चैकात्मा तिग्मतेजास्स्वयम्भुवः ॥ १३५ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः ।चन्दनी पद्मनाळाग्रस्सुरभ्युत्तरणो नरः ॥१३६कर्णिकारमहास्रग्वी नीलमौळि: पिनाकभृत् ।उमापतिरुमाकान्तो जाह्नवीभृदुमाधवः ॥१३७

वरो वराहो वरदो वरेण्यस्सुमहास्वनः ।महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गळः ॥१३८प्रीतात्मा परमात्मा च प्रयतात्मा प्रधानधृत् ।सर्वपार्श्वसुखस्त्र्यक्षो धर्मसाधारणो वरः ॥१३९चराचरात्मा सूक्ष्मात्मा अमृतो गोवृषेश्वरः ।साध्यर्षिर्वसुरादित्यो विवस्वान् सविताऽमृतः ॥१४०व्यासस्सर्गस्सुसङ्क्षेपो विस्तरः पर्ययो नरः ।ऋतुस्संवत्सरो मास: पक्षस्संख्यासमापनः ॥१४१कळा काष्ठा लवा मात्रा मुहूर्ताह:क्षपाक्षणाः ।विश्वक्षेत्रं प्रजाबीज लिङ्गमाद्यस्सुनिर्गमः ॥१४२सदसद्व्यक्तमव्यक्तं पिता माता पितामहः ।स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥१४३निर्वाणं ह्लादनश्चैव ब्रह्मलोकः परा गतिः ।देवासुरविनिर्माता देवासुरपरायणः ॥१४४देवासुरगुरुर्देवो देवासुरनमस्कृतः ।देवासुरमहामात्रो देवासुरगणाश्रयः ॥१४५

देवासुरगणाध्यक्षो देवासुरगणाग्रणीः ।देवादिदेवो देवर्षिर्देवासुरवरप्रदः ॥१४६देवासुरेश्वरो विश्वो देवासुरमहेश्वरः ।सर्वदेवमयोऽचिन्त्यो देवतात्मात्मसम्भवः ॥ १४७ऊद्भित्त्रिविक्रमो वैद्यो विरजो नीरजोऽमरः ।ईड्यो हस्तीश्वरो व्याघ्रो देवसिंहो नरर्षभः ॥१४८विबुधोऽग्रवरस्सूक्ष्मस्सर्वदेवस्तपोमयः ।सुयुक्तश्शोभनो वज्री प्रासानां प्रभवोऽव्ययः ॥१४९गुहः कान्तो निजस्सर्गः पवित्रं सर्वपावनः ।शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः ॥ १५०अभिरामस्सुरगणो विरामस्सर्वसाधनः ।ललाटाक्षो विश्वदेवो हरिणो ब्रह्मवर्चसः ॥ १११स्थावराणां पतिश्चैव नियमेन्द्रियवर्धनः ।सिद्धार्थस्सिद्धभूतार्थोऽचिन्त्यस्सत्यव्रतश्शुचिः ॥१५२व्रतधिपः परं ब्रह्म भक्तानुग्रहकारकः ।विमुक्तो मुक्ततेजाश्च श्रीमान् श्रीवर्धनो जगत् ॥१५३

यथाप्रधानं भगवानिति भक्त्त्या स्तुतो मया ।यं न ब्रह्मादयो देवा विदुस्तत्वेन नर्षयः ॥ १५४स्तोतव्यमर्च्यं वन्द्यं च कः स्तोष्यति जगत्पतिम् ।भक्त्त्या त्वेवं पुरस्कृत्य मया यज्ञपतिर्विभुः ॥१५५ततोऽभ्यनुज्ञा सम्प्राप्य स्तुतो मतिमतां वरः।शिवमेभिः स्तुवन् देवं नामभिः पुष्टिवर्धनैः ॥१५६नित्ययुक्तश्शुचिर्भूतः प्राप्नोत्यात्मानमात्मना ।एतद्धि परमं ब्रह्म परं ब्रह्माधिगच्छति ॥१५७ऋषयश्चैव देवाश्च स्तुवन्त्येतेन तत्पराः ।स्तूयमानो महादेवस्तुष्यते नियतात्मभिः ॥ १५८भक्तानुकम्पी भगवानात्मसंस्थाकरो विभुः।तथैव च मनुष्येषु ये मनुष्या: प्रधानतः ॥ १५९आस्तिकाश्श्रद्दधानाश्च बहुभिर्जन्मभिस्स्तवैः।भक्त्या ह्यनन्यमीशानं परं देवं सनातनम् ॥ १६०कर्मणा मनसा वाचा भावेनामिततेजसः ।शयाना जाग्रमाणाश्च व्रजन्नुपविशंस्तथा ॥१६१

उन्मिषन्निमिषंश्चैव चिन्तयन्तः पुनः पुनः ।शृण्वन्तश्श्रावयन्तश्च कथयन्तश्च ते भवम् ॥ १६२स्तुवन्तस्स्तूयमानाश्च तुष्यन्ति च रमन्ति च ।जन्मकोटिसहस्रेषु नानासंसारयोनिषु ॥ १६३जन्तोर्विगतपापस्य भवे भक्तिः प्रजायते ।उत्पन्ना च भवे भक्तिरनन्या सर्वभावतः ॥ १६४भाविनः कारणं चास्य सर्वमुक्तस्य सर्वदा ।एतद्देवेषु दुष्पापं मनुष्येषु न लभ्यते ॥१६५निर्विघ्ना निर्मला रुद्रे भक्तिरव्यभिचारिणी।तस्यैव च प्रसादेन भक्तिरुत्पद्यते नृणाम् ॥ १६६येन यान्ति परां सिद्धिं तद्भावगतचेतसः ।यं सर्वभावानुगताः प्रपद्यन्ते महेश्वरम् ॥१६७प्रपन्नवत्सलो देवसंसारात्तान् समुद्धरेत् ।एवमन्ये न कुर्वन्ति देवास्संसारमोचनम् ॥ १६८मनुष्याणामृते देवं नान्या शक्तिस्तपोबलम् ।इति तेनेन्द्रकल्पेन भगवान् सदसत्पतिः ॥ १६९

कृत्तिवासास्स्तुतः कृष्ण तण्डिना शुभबुद्धिना।स्तवमेतं भगवतो ब्रह्मा स्वयमधारयत् ॥१७०गीयते च स बुध्येत ब्रह्मशङ्करसन्निधौ ।इदं पुण्यं पवित्रं च सर्वदा पापनाशनम् ॥ १७१योगदं मोक्षदं चैव स्वर्गदं तोषदं तथा ।एवमेतत्पठन्ते य एकभक्त्या तु शङ्करम् ॥ १७२या गतिस्सांख्ययोगानां व्रजन्ते तां गतिं तथा ।स्तवमेनं प्रयत्नेन सदा रुद्रस्य सन्निधौ ॥१७३अब्दमेकं चरेद्भक्तः प्राप्नुयादीप्सितं फलम् ।एतद्रहस्यं परमं ब्रह्मणो हृदि संस्थितम् ॥१७४ब्रह्मा प्रोवाच शक्राय शक्रः प्रोवाच मृत्यवे।मृत्युः प्रोवाच रुद्रेभ्यो रुद्रेभ्यस्तण्डिमागमत् ॥१७५महता तपसा प्राप्तं तण्डिना ब्रह्मसद्मनि ।तण्डिः प्रोवाच शुक्राय गौतमाय च भार्गवः ॥१७६वैवस्वताय मनवे गौतमः प्राह माधव ।नारायणाय साध्याय मनुरिष्टाय धीमते ॥ १७७

यमाय प्राह भगवान् साध्यो नारायणोऽच्युतः।नाचिकेताय भगवानाह वैवस्वतो यमः ॥ १७८मार्कण्डेयाय वार्ष्णेय नाचिकेतोऽभ्यभाषत ।मार्कण्डेयान्मया प्राप्तो नियमेन जनार्दन ॥१७९तवाप्यहममित्रनघ्न स्तवं दद्यां ह्यविश्रुतम् ।स्वर्यमारोग्यमायुष्यं धन्यं वेदेन सम्मितम् ॥ १८०नास्य विघ्नं विकुर्वन्ति दानवा यक्षराक्षसाः ।पिशाचा यातुधाना वा गुह्यका भुजगा अपि ॥यः पठेत शुचिः पार्थ ब्रह्मचारी जितेन्द्रियः।अभग्नयोगो वर्षं तु सोऽश्वमेधफलं लभेत् ॥ १८२

Meaning

Meaning & context

The names move through Shiva's ascetic, cosmic, protective, temporal and liberating forms; long passages are grouped into recitation sections with bilingual thematic meaning.