शिवनवरत्नस्तवः
Shiva Navaratna Stava
Nine central jewels of praise to Shiva, followed by three verses describing the practice and fruits of recitation.
नमो हराय देवाय महामायातिशूलिने। तापसाय महेशाय तत्त्वज्ञानप्रदायिने॥१॥
नमो मौञ्जाय शुद्धाय नमः कारुण्यमूर्तये। नमो देवाधिदेवाय नमो वेदान्तदायिने॥२॥
नमः पराय रुद्राय सुपाराय नमो नमः। विश्वमूर्ते महेशाय विश्वाधाराय ते नमः॥३॥
नमो भक्तभवच्छेदकारणायामलात्मने। कालकालाय कालाय कालातीताय ते नमः॥४॥
जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः। नमः पाषण्डभङ्गाय नमः पापहराय ते॥५॥
नमः पर्वतराजेन्द्रकन्यकापतये नमः। योगानन्दाय योगाय योगिनां पतये नमः॥६॥
प्राणायामपराणां तु प्राणरक्षाय ते नमः। मूलाधारे प्रविष्टाय मूलदीपात्मने नमः॥७॥
नाभिकन्दे प्रविष्टाय नमो हृद्देशवर्तिने। सच्चिदानन्दपूर्णाय नमः साक्षात्परात्मने॥८॥
नमः शिवायाद्भुतविक्रमाय ते नमः शिवायाद्भुतविग्रहाय ते। नमः शिवायाखिलनायकाय ते नमः शिवायामृतहेतवे नमः॥९॥
य इदं पठते नित्यं स्तोत्रं भक्त्या सुसंयतः। तस्य मुक्तिः करस्था स्याच्छङ्करप्रियकारणात्॥१०॥
विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत्। वैराग्यकामो लभते वैराग्यं भवतारकम्॥११॥
तस्माद्दिने दिने यूयमिदं स्तोत्रं समाहिताः। पठन्तु भवनाशार्थमिदं वो भवनाशनम्॥१२॥
Meaning & context
The complete Sanskrit text is presented with original BhajanDhara verse-group summaries in English and Hindi; these summaries are explanatory rather than literal translations.