Stotra

शिवाष्टोत्तरशतनामावलिः

Shiva Ashtottara Shatanamavali

One hundred and eight names contemplating Shiva’s forms and grace.

Dedicated toशिवः
Sacred textOriginal Sanskrit

शिवो महेश्वरश्शंभुः पिनाकी शशिशेखरः ।वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ १

शङ्करश्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः ।शिपिविष्टोंऽबिकानाथः श्रीकण्ठो भक्तवत्सलः ॥२

भवश्शर्वस्त्रिलोकेशश्शितिकण्ठश्शिवाप्रियः ।उग्रः कपाली कामारिरन्धकासुरसूदनः ॥३

गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः।भीमः परशुहस्तश्च मृगपाणिर्जटाधरः ॥४

कैलासवासी कवची कठोरस्त्रिपुरान्तकः।वृषाङ्को वृषभारूढो भस्मोद्धूळितविग्रहः ॥

सामप्रियस्खरमयस्त्रयीमूर्तिरनीश्वरः ।सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥

हविर्यज्ञमयस्सोमः पञ्चवक्त्रसदाशिवः ।विश्वेश्वरो वीरभद्रो गणनाथ: प्रजापतिः ॥

हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः ।भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥

कृत्तिवासाः पुरारातिर्भगवान् प्रमथाधिपः ।मृत्युञ्जयस्सूक्ष्मतनुर्जगद्व्यापी जगद्गुरुः ॥

व्योमकेशो महासेनजनकश्वारुविक्रमः ।रुद्रो भूतपतिः स्थाणुरहिर्बुध्न्यो दिगम्बरः ॥

अष्टमूर्तिरनेकात्मा सात्त्विकश्शुद्धविग्रहः ।शाश्वतः खण्डपरशुरज: पाशविमोचकः ।।

मृडः पशुपतिर्देवो महादेवोऽव्ययो हरिः ।पूषदन्तभिदव्यग्रो दक्षाध्वरहरो हरः ॥

भगनेत्रभिदव्यक्तस्सहस्राक्षस्सहस्रपात् ।अपवर्गप्रदोऽनन्तस्तारकः परमेश्वरः ॥

एवं श्रीशंभुदेवस्य नाम्नामष्टोत्तरं शतम् ॥

॥

Meaning

Meaning & context

A complete 15-part source text with a separate English and Hindi explanatory meaning aligned to every displayed row.