Stotra

सङ्कटनाशनगणेशस्तोत्रम्

Sankata Nashana Ganesha Stotram

A traditional Ganesha hymn centered on twelve sacred names.

Dedicated toगणेशः
Sacred textOriginal Sanskrit

प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम्।भक्तावासं स्मरेन्नित्यमायुःकामार्थसिद्धये ॥

प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम्।तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥

लम्बोदरं पञ्चमं च षष्ठं विकटमेव च।सप्तमं विघ्नराजेन्द्रं धूम्रवर्णं तथाष्टमम् ॥

नवमं भालचन्द्रं च दशमं तु विनायकम्।एकादशं गणपतिं द्वादशं तु गजाननम् ॥

द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः।न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥

विद्यार्थी लभते विद्यां धनार्थी लभते धनम्।पुत्रार्थी लभते पुत्रान् मोक्षार्थी लभते गतिम् ॥

जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत्।संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥

अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत्।तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥

Meaning

Meaning & context

The hymn remembers twelve names of Ganesha and traditionally associates their recitation with removing obstacles.