सङ्कष्टहरणं गणेशाष्टकम्
Sankashta Harana Ganesha Ashtakam
An eight-verse Sanskrit hymn contemplating Ganesha through sacred sound, vivid iconography and the removal of obstacles.
Dedicated toगणेशःश्रीगणेशाय नमः। ॐ अस्य श्रीसङ्कष्टहरणस्तोत्रमन्त्रस्य श्रीमहागणपतिर्देवता, सङ्कष्टहरणार्थे जपे विनियोगः।
ॐ ॐ ॐकाररूपं त्र्यहमिति च परं यत्स्वरूपं तुरीयं त्रैगुण्यातीतनीलं कलयति मनसस्तेजसिन्दूरमूर्तिम्। योगीन्द्रैर्ब्रह्मरन्ध्रैः सकलगुणमयं श्रीहरेन्द्रेण सङ्गं गं गं गं गं गणेशं गजमुखमभितो व्यापकं चिन्तयन्ति॥१॥
वं वं वं विघ्नराजं भजति निजभुजे दक्षिणे न्यस्तशुण्डं क्रं क्रं क्रं क्रोधमुद्रादलितरिपुबलं कल्पवृक्षस्य मूले। दं दं दं दन्तमेकं दधति मुनिमुखं कामधेन्वा निषेव्यं धं धं धं धारयन्तं धनदमतिधियं सिद्धिबुद्धिद्वितीयम्॥२॥
तुं तुं तुं तुङ्गरूपं गगनपथि गतं व्याप्नुवन्तं दिगन्तान् क्लीं क्लीं क्लीं कारनाथं गलितमदमिलल्लोलमत्तालिमालम्। ह्रीं ह्रीं ह्रीं कारपिङ्गं सकलमुनिवरध्येयमुण्डं च शुण्डं श्रीं श्रीं श्रीं श्रीं श्रयन्तं निखिलनिधिकुलं नौमि हेरम्बबिम्बम्॥३॥
लौं लौं लौं कारमाद्यं प्रणवमिव पदं मन्त्रमुक्तावलीनां शुद्धं विघ्नेशबीजं शशिकरसदृशं योगिनां ध्यानगम्यम्। डं डं डं डामरूपं दलितभवभयं सूर्यकोटिप्रकाशं यं यं यं यज्ञनाथं जपति मुनिवरो बाह्यमभ्यन्तरं च॥४॥
हुं हुं हुं हेमवर्णं श्रुतिगणितगुणं शूर्पकर्णं कृपालुं ध्येयं सूर्यस्य बिम्बं ह्युरसि च विलसत्सर्पयज्ञोपवीतम्। स्वाहा हुं फट् नमोऽन्तैष्ठठठठसहितैः पल्लवैः सेव्यमानं मन्त्राणां सप्तकोटिप्रगुणितमहिमाधारमीशं प्रपद्ये॥५॥
पूर्वं पीठं त्रिकोणं तदुपरिरुचिरं षट्कपत्रं पवित्रं यस्योर्ध्वं शुद्धरेखा वसुदलकमलं वा स्वतेजश्चतुस्रम्। मध्ये हुङ्कारबीजं तदनु भगवतः स्वाङ्गषट्कं षडस्रे अष्टौ शक्तीश्च सिद्धीर्बहुलगणपतिर्विष्टरश्चाष्टकं च॥६॥
धर्माद्यष्टौ प्रसिद्धा दशदिशि विदिता वा ध्वजाल्यः कपालं तस्य क्षेत्रादिनाथं मुनिकुलमखिलं मन्त्रमुद्रामहेशम्। एवं यो भक्तियुक्तो जपति गणपतिं पुष्पधूपाक्षताद्यैर्नैवेद्यैर्मोदकानां स्तुतियुतविलसद्गीतवादित्रनादैः॥७॥
राजानस्तस्य भृत्या इव युवतिकुलं दासवत्सर्वदास्ते लक्ष्मीः सर्वाङ्गयुक्ता श्रयति च सदनं किङ्कराः सर्वलोकाः। पुत्राः पुत्र्यः पवित्रा रणभुवि विजयी द्यूतवादेऽपि वीरो यस्येशो विघ्नराजो निवसति हृदये भक्तिभाग्यस्य रुद्रः॥८॥ इति सङ्कष्टहरणं गणेशाष्टकं सम्पूर्णम्॥
Meaning & context
This ashtakam is unusually rich in mantra imagery. It moves from Om and the seed syllables to Ganesha's form, a geometric meditation seat and a full offering of music and worship. Its language treats obstacle-removal as an inner ordering of attention as much as an outer blessing.