श्रीरुद्रप्रश्नः
Rudri Path — Namakam & Chamakam
The complete Shri Rudram in traditional order: eleven anuvākas of Namakam followed by eleven of Chamakam.
Dedicated toशिवःनमस् ते रुद्र मन्यव उतो त इषवे नमः ।नमस् ते अस्तु धन्वने बाहुभ्याम् उत ते नमः ॥ या त इषुः शिवतमा शिवम् बभूव ते धनुः ।शिवा शरव्या या तव तया नो रुद्र मृडय ॥ या ते रुद्र शिवा तनूर् अघोराऽपापकाशिनी ।तया नस् तनुवा शंतमया गिरिशन्ताभि चाकशीहि ॥ याम् इषुं गिरिशन्त हस्ते बिभर्ष्य् अस्तवे ।शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥ शिवेन वचसा त्वा गिरिशाच्छा वदामसि ।यथा नः सर्वम् इज् जगद् अयक्ष्मꣳ सुमना असत् ॥ अध्य् अवोचद् अधिवक्ता प्रथमो दैव्यो भिषक् ।अहीꣳश् च सर्वाञ् जम्भयन्त् सर्वाश् च यातु धान्यः ॥ असौ यस् ताम्रो अरुण उत बभ्रुः सुमङ्गलः ।ये चेमाꣳ रुद्रा अभितो दिक्षु श्रिताः सहस्रशो ऽवैषाꣳ हेड ईमहे ॥ असौ यो ऽवसर्पति नीलग्रीवो विलोहितः ।उतैनं गोपा अदृशन्न् अदृशन्न् उदहार्यः ।उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥ नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे ।अथो ये अस्य सत्वानो ऽहं तेभ्यो ऽकरं नमः ॥ प्र मुञ्च धन्वनस् त्वम् उभयोर् आर्त्नियोर् ज्याम् ।याश् च ते हस्त इषवः परा ता भगवो वप ॥ अवतत्य धनुस् त्वꣳ सहस्राक्ष शतेषुधे ।निशीर्य शल्यानाम् मुखा शिवो नः सुमना भव ॥ विज्यं धनुः कपर्दिनो विशल्यो बाणवाꣳ उत ।अनेशन्न् अस्येषव आभुर् अस्य निषङ्गथिः ॥ या ते हेतिर् मीढुष्टम हस्ते बभूव ते धनुः ।तयास्मान् विश्वतस् त्वम् अयक्ष्मया परि ब्भुज ॥ नमस् ते अस्त्व् आयुधायानातताय धृष्णवे ।उभाभ्याम् उत ते नमो बाहुभ्यां तव धन्वने ॥ परि ते धन्वनो हेतिर् अस्मान् वृणक्तु विश्वतः ।अथो य इषुधिस् तवारे अस्मन् नि धेहि तम् ॥
नमो हिरण्यबाहवे सेनान्ये दिशां च पतये नमः ।नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनाम् पतये नमः ।नमः सस्पिञ्जराय त्विषीमते पथीनाम् पतये नमः ।नमो बभ्लुशाय विव्याधिने ऽन्नानाम् पतये नमः ।नमो हरिकेशायोपवीतिने पुष्टानाम् पतये नमः ।नमो भवस्य हेत्यै जगताम् पतये नमः ।नमो रुद्रायाऽऽतताविने क्षेत्राणाम् पतये नमः ।नमः सूतायाहन्त्याय वनानाम् पतये नमः ।नमो रोहिताय स्थपतये वृक्षाणाम् पतये नमः ।नमो मन्त्रिणे वाणिजाय कक्षाणाम् पतये नमः ।नमो भुवन्तये वारिवस्कृतायौषधीनाम् पतये नमः ।नम उच्चैर्घोषायाक्रन्दयते पत्तीनाम् पतये नमः ।नमः कृत्स्नवीताय धावते सत्वनाम् पतये नमः ॥
नमः सहमानाय निव्याधिन आव्याधिनीनाम् पतये नमः ।नमः ककुभाय निषङ्गिणे स्तेनानाम् पतये नमः ।नमो निषङ्गिण इषुधिमते तस्कराणाम् पतये नमः ।नमो वञ्चते परिवञ्चते स्तायूनाम् पतये नमः ।नमो निचेरवे परिचरायारण्यानाम् पतये नमः ।नमः सृकाविभ्यो जिघाꣳसद्भ्यो मुष्णताम् पतये नमः ।नमो ऽसिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानाम् पतये नमः ।नम उष्णीषिणे गिरिचराय कुलुञ्चानाम् पतये नमः ।नमः इषुमद्भ्यो धन्वाविभ्यश् च वो नमः ।नम आतन्वानेभ्यः प्रतिदधानेभ्यश् च वो नमः ।नम आयच्छद्भ्यो विसृजद्भ्यश् च वो नमः ।नमो ऽस्यद्भ्यो विध्यद्भ्यश् च वो नमः ।नम आसीनेभ्यः शयानेभ्यश् च वो नमः ।नमः स्वपद्भ्यो जाग्रद्भ्यश् च वो नमः ।नमस् तिष्ठद्भ्यो धावद्भ्यश् च वो नमः ।नमः सभाभ्यः सभापतिभ्यश् च वो नमः ।नमो अश्वेभ्यो ऽश्वपतिभ्यश् च वो नमः ॥
नम आव्याधिनीभ्यो विविध्यन्तीभ्यश् च वो नमः ।नम उगणाभ्यस् तृꣳहतीभ्यश् च वो नमः ।नमो गृत्सेभ्यो गृत्सपतिभ्यश् च वो नमः ।नमो व्रातेभ्यो व्रातपतिभ्यश् च वो नमः ।नमो गणेभ्यो गणपतिभ्यश् च वो नमः ।नमो विरूपेभ्यो विश्वरूपेभ्यश् च वो नमः ।नमो महद्भ्यः क्षुल्लकेभ्यश् च वो नमः ।नमो रथिभ्यो ऽरथेभ्यश् च वो नमः ।नमो रथेभ्यः रथपतिभ्यश् च वो नमः ।नमः सेनाभ्यः सेनानिभ्यश् च वो नमः ।नमः क्षत्तृभ्यः संग्रहीतृभ्यश् च वो नमः ।नमस् तक्षभ्यो रथकारेभ्यश् च वो नमः ।नमः कुलालेभ्यः कर्मारेभ्यश् च वो नमः ।नमः पुञ्जिष्टेभ्यो निषादेभ्यश् च वो नमः ।नम इषुकृद्भ्यो धन्वकृद्भ्यश् च वो नमः ।नमो मृगयुभ्यः श्वनिभ्यश् च वो नमः ।नमः श्वभ्यः श्वपतिभ्यश् च वो नमः ॥
नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृध्वने च नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च नमः शीघ्रियाय च शीभ्याय च नम ऊर्म्याय चावस्वन्याय च नमः स्रोतस्याय च द्वीप्याय च ॥
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च ॥ नम आशुषेणाय चाऽऽशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च ॥
नमो दुन्दुभ्याय चाऽऽहनन्याय च नमो धृष्णवे च प्रमृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस् तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम ईध्रियाय चाऽऽतप्याय च नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च ॥
नमः सोमाय च रुद्राय च नमस् ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यः ।नमस् ताराय नमः शम्भवे च मयोभवे च नमः शंकराय च मयस्कराय च नमः शिवाय च शिवतराय च नमस् तीर्थ्याय च कूल्याय च नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नम आतार्याय चाऽऽलाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च ॥
नम इरिण्याय च प्रपथ्याय च नमः किꣳशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस् तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो ह्रदय्याय च निवेष्प्याय च नमः पाꣳसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च नम ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमो ऽपगुरमाणाय चाभिघ्नते च नम आक्खिदते च प्रक्खिदते च नमो वः किरिकेभ्यो देवानाꣳ हृदयेभ्यः ।नमो विक्षीणकेभ्यः ।नमो विचिन्वत्केभ्यः ।नम आनिर्हतेभ्यः ।नम आमीवत्केभ्यः ॥
द्रापे अन्धसस् पते दरिद्रन् नीललोहित ।एषाम् पुरुषाणाम् एषाम् पशूनाम् मा भेर् माऽरो मो एषां किं चनाममत् ॥ या ते रुद्र शिवा तनूः शिवा विश्वाहभेषजी ।शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥ इमाꣳ रुद्राय तवसे कपर्दिने क्षयद्वीराय प्र भरामहे मतिम् ।यथा नः शम् असद् द्विपदे चतुष्पदे विश्वम् पुष्टम् ग्रामे अस्मिन् अनातुरम् ॥ मृडा नो रुद्रोत नो मयस् कृधि क्षयद्वीराय नमसा विधेम ते ।यच् छं च योश् च मनुर् आयजे पिता तद् अश्याम तव रुद्र प्रणीतौ ॥ मा नो महान्तम् उत मा नो अर्भकम् मा न उक्षन्तम् उत मा न उक्षितम् ।मा नो वधीः पितरम् मोत मातरम् प्रिया मा नस् तनुवः रुद्र रीरिषः ॥ मा नस् तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः ।वीरान् मा नो रुद्र भामितो वधीर् हविष्मन्तो नमसा विधेम ते ॥ आरात् ते गोघ्न उत पूरुषघ्ने क्षयद्वीराय सुम्नम् अस्मे ते अस्तु ।रक्षा च नो अधि च देव ब्रूह्य् अधा च नः शर्म यच्छ द्विबर्हाः ॥ स्तुहि श्रुतं गर्तसदं युवानम् मृगं न भीमम् उपहत्नुम् उग्रम् ।मृडा जरित्रे रुद्र स्तवानो अन्यं ते अस्मन् नि वपन्तु सेनाः ॥ परि णो रुद्रस्य हेतिर् वृणक्तु परि त्वेषस्य दुर्मतिर् अघायोः ।अव स्थिरा मघवद्भ्यस् तनुष्व मीढ्वस् तोकाय तनयाय मृडय ॥ मीढुष्टम शिवतम शिवो नः सुमना भव ।परमे वृक्ष आयुधं निधाय कृत्तिं वसान आ चर पिनाकम् बिभ्रद् आ गहि ॥ विकिरिद विलोहित नमस् ते अस्तु भगवः ।यास् ते सहस्रꣳ हेतयो ऽन्यम् अस्मन् नि वपन्तु ताः ॥ सहस्राणि सहस्रधाः बाहुवोस् तव हेतयः ।तासाम् ईशानो भगवः पराचीना मुखा कृधि ॥
सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् ।तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥अस्मिन् महत्य् अर्णवे ऽन्तरिक्षे भवा अधि ।नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥ नीलग्रीवाः शितिकण्ठा दिवꣳ रुद्रा उपश्रिताः ।ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ।ये भूतानाम् अधिपतयो विशिखासः कपर्दिनः ।ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ।ये पथाम् पथिरक्षय ऐलबृदा यव्युधः ।ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ।य एतावन्तश् च भूयाꣳसश् च दिशो रुद्रा वितस्थिरे ।तेषाꣳ सहस्रयोजने ऽव धन्वानि तन्मसि ॥ नमो रुद्रेभ्यो ये पृथिव्यां ये ऽन्तरिक्षे ये दिवि येषाम् अन्नं वातो वर्षम् इषवस् तेभ्यो दश प्राचीर् दश दक्षिणा दश प्रतीचीर् दशोदीचीर् दशोर्ध्वास् तेभ्यो नमस् ते नो मृडयन्तु ते यं द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि ॥
अग्नाविष्णू सजोषसेमा वर्धन्तु वां गिरः ।द्युम्नैर् वाजेभिर् आगतम् ॥ वाजश् च मे प्रसवश् च मे प्रयतिश् च मे प्रसितिश् च मे धीतिश् च मे क्रतुश् च मे स्वरश् च मे श्लोकश् च मे श्रावश् च मे श्रुतिश् च मे ज्योतिश् च मे सुवश् च मे प्राणश् च मे ऽपान श्च मे व्यानश् च मे ऽसुश् च मे चित्तं च म आधीतं च मे वाक् च मे मनश् च मे चक्षुश् च मे श्रोत्रं च मे दक्षश् च मे बलं च म ओजश् च मे सहश् च म आयुश् च मे जरा च म आत्मा च मे तनूश् च मे शर्म च मे वर्म च मे ऽङ्गानि च मे ऽस्थानि च मे परूꣳषि च मे शरीराणि च मे ॥
ज्यैष्ठ्यं च म आधिपत्यं च मे मन्युश् च मे भामस् च मे ऽमश् च मे ऽम्भश् च मे जेमा च मे महिमा च मे वरिमा च मे प्रथिमा च मे वर्ष्मा च मे द्राघुया च मे वृद्धं च मे वृद्धिश् च मे सत्यं च मे श्रद्धा च मे जगच् च मे धनं च मे वशश् च मे त्विषिश् च मे क्रीडा च मे मोदश् च मे जातं च मे जनिष्यमाणं च मे सूक्तं च मे सुकृतं च मे वित्तं च मे वेद्यं च मे भूतं च मे भविष्यच् च मे सुगं च मे सुपथं च म ऋद्धं च म ऋद्धिश् च मे क्लृप्तं च मे क्लृप्तिश् च मे मतिश् च मे सुमतिश् च मे ॥
शं च मे मयश् च मे प्रियं च मे ऽनुकामश् च मे कामश् च मे सौमनसश् च मे भद्रं च मे श्रेयश् च मे वस्यश् च मे यशश् च मे भगश् च मे द्रविणं च मे यन्ता च मे धर्ता च मे क्षेमश् च मे धृतिश् च मे विश्वं च मे महश् च मे संविच् च मे ज्ञात्रं च मे सूश् च मे प्रसूश् च मे सीरं च मे लयश् च म ऋतं च मे ऽमृतं च मे ऽयक्ष्मं च मे ऽनामयच् च मे जीवातुश् च मे दीर्घायुत्वं च मे ऽनमित्रं च मे ऽभयं च मे सुगं च मे शयनं च मे सूषा च मे सुदिनं च मे ॥
ऊर्क् च मे सूनृता च मे पयश् च मे रसश् च मे घृतं च मे मधु च मे सग्धिश् च मे सपीतिश् च मे कृषिश् च मे वृष्टिश् च मे जैत्रं च म औद्भिद्यं च मे रयिश् च मे रायश् च मे पुष्टं च मे पुष्टिश् च मे विभु च मे प्रभु च मे बहु च मे भूयश् च मे पूर्णं च मे पूर्णतरं च मे ऽक्षितिश् च मे कूयवाश् च मे ऽन्नं च मे ऽक्षुच् च मे व्रीहयश् च मे यवाश् च मे माषाश् च मे तिलाश् च मे मुद्गाश् च मे खल्वाश् च मे गोधूमाश् च मे मसुराश् च मे प्रियंगवश् च मे ऽणवश् च मे श्यामाकाश् च मे नीवाराश् च मे ॥
अश्मा च मे मृत्तिका च मे गिरयश् च मे पर्वताश् च मे सिकताश् च मे वनस्पतयश् च मे हिरण्यं च मे ऽयश् च मे सीसं च मे त्रपुश् च मे श्यामं च मे लोहं च मे ऽग्निश् च म आपश् च मे वीरुधश् च म ओषधयश् च मे कृष्टपच्यं च मे ऽकृष्टपच्यं च मे ग्राम्याश् च मे पशव आरण्याश् च यज्ञेन कल्पन्ताम् ।वित्तं च मे वित्तिश् च मे भूतं च मे भूतिश् च मे वसु च मे वसतिश् च मे कर्म च मे शक्तिश् च मे ऽर्थश् च म एमश् च म इतिश् च मे गतिश् च मे ॥
अग्निश् च म इन्द्रश् च मे सोमश् च म इन्द्रश् च मे सविता च म इन्द्रश् च मे सरस्वती च म इन्द्रश् च मे पूषा च म इन्द्रश् च मे बृहस्पतिश् च म इन्द्रश् च मे मित्रश् च म इन्द्रश् च मे वरुणश् च म इन्द्रश् च मे त्वष्टा च म इन्द्रश् च मे धाता च म इन्द्रश् च मे विष्णुश् च म इन्द्रश् च मे ।अश्विनौ च म इन्द्रश् च मे मरुतश् च म इन्द्रश् च मे विश्वे च मे देवा इन्द्रश् च मे पृथिवी च म इन्द्रश् च मे ।अन्तरिक्षम् च म इन्द्रश् च मे द्यौश् च म इन्द्रश् च मे दिशश् च म इन्द्रश् च मे मूर्धा च म इन्द्रश् च मे प्रजापतिश् च म इन्द्रश् च मे ॥
अꣳशुश् च मे रश्मिश् च मे ऽदाभ्यश् च मे ऽधिपतिश् च म उपाꣳशुश् च मे ऽन्तर्यामश् च म ऐन्द्रवायवश् च मे मैत्रावरुणश् च म आश्विनश् च मे प्रतिप्रस्थानश् च मे शुक्रश् च मे मन्थी च म आग्रयणश् च मे वैश्वदेवश् च मे ध्रुवश् च मे वैश्वानरश् च म ऋतुग्रहाश् च ॥ मे ऽतिग्राह्याश् च म ऐन्द्राग्नश् च मे वैश्वदेवश् च मे मरुत्वतीयाश् च मे महेन्द्रश् च म आदित्यश् च मे सावित्रश् च मे सारस्वतश् च मे पौष्णश् च मे पात्नीवतश् च मे हारियोजनश् च मे ॥
इध्मश् च मे बर्हिश् च मे वेदिश् च मे धिष्णियाश् च मे स्रुचश् च मे चमसाश् च मे ग्रावाणश् च मे स्वरवश् च म उपरवाश् च मे ऽधिषवणे च मे द्रोणकलशश् च मे वायव्यानि च मे पूतभृच् च म आधवनीयश् च म आग्नीध्रं च मे हविर्धानं च मे गृहाश् च मे सदश् च मे पुरोडाशाश् च मे पचताश् च मे ऽवभृथश् च मे स्वगाकारश् च मे ॥
अग्निश् च मे घर्मश् च मे ऽर्कश् च मे सूर्यश् च मे प्राणश् च मे ऽश्वमेधश् च मे पृथिवी च मे ऽदितिश् च मे दितिश् च मे द्यौश् च मे शक्वरीर् अङ्गुलयो दिशश् च मे यज्ञेन कल्पन्ताम् ऋक् च मे साम च मे स्तोमश् च मे यजुश् च मे दीक्षा च मे तपश् च म ऋतुश् च मे व्रतं च मे ऽहोरात्रयोर् वृष्ट्या बृहद्रथन्तरे च मे यज्ञेन कल्पेताम् ॥
गर्भाश् च मे वत्साश् च मे त्र्यविश् च मे त्र्यवी च मे दित्यवाट् च मे दित्यौही च मे पञ्चाविश् च मे पञ्चावी च मे त्रिवत्सश् च मे त्रिवत्सा च मे तुर्यवाट् च मे तुर्यौही च मे पष्ठवाच् च मे पष्ठौही च मे ।उक्षा च मे वशा च मे ।ऋषभश् च मे वेहच् च मे ऽनड्वाञ् च मे धेनुश् च मे ।आयुर् यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानो यज्ञेन कल्पताम् ।व्यानो यज्ञेन कल्पताम् ।चक्षुर् यज्ञेन कल्पताम् ।श्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पताम् ।वाग् यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पताम् ।यज्ञो यज्ञेन कल्पताम् ॥
एका च मे तिस्रश् च मे पञ्च च मे सप्त च मे नव च म एकादश च मे त्रयोदश च मे पञ्चदश च मे सप्तदश च मे नवदश च म एकविꣳशतिश् च मे त्रयोविꣳशतिश् च मे पञ्चविꣳशतिश् च मे सप्तविꣳशतिश् च मे नवविꣳशतिश् च म एकत्रिꣳश्च् च मे त्रयस्त्रिꣳशच् च ॥ मे चतस्रश् च मे ऽष्टौ च मे द्वादश च मे षोडश च मे विꣳशतिश् च मे चतुर्विꣳशतिश् च मे ऽष्टाविꣳशतिश् च मे द्वात्रिꣳशच् च मे षट्त्रिꣳशच् च मे चत्वारिꣳशच् च मे चतुश्चत्वारिꣳशच् च मे ऽष्टाचत्वारिꣳशच् च मे वाजश् च प्रसवश् चापिजश् च क्रतुश् च सुवश् च मूर्धा च व्यश्नियश् चाऽऽन्त्यायनश् चान्त्यश् च भौवनश् च भुवनश् चाधिपतिश् च ॥