Stotra

श्रीराधाकृपाकटाक्षस्तवराजः

Radha Kripa Kataksha Stava

A lyrical Sanskrit prayer asking Shri Radha for one compassionate glance.

Dedicated toराधा
Sacred textOriginal Sanskrit

मुनीन्द्रवृन्दवन्दिते त्रिलोकशोकहारिणि प्रसन्नवक्त्रपङ्कजे निकुञ्जभूविलासिनि।व्रजेन्द्रभानुनन्दिनि व्रजेन्द्रसूनुसङ्गते कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥१॥

अशोकवृक्षवल्लरीवितानमण्डपस्थिते प्रवालवालपल्लवप्रभारुणाङ्घ्रिकोमले।वराभयस्फुरत्करे प्रभूतसम्पदालये कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥२॥

अनङ्गरङ्गमङ्गलप्रसङ्गभङ्गुरभ्रुवां सविभ्रमं ससम्भ्रमं दृगन्तबाणपातनैः।निरन्तरं वशीकृतप्रतीतिनन्दनन्दने कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥३॥

तडित्सुवर्णचम्पकप्रदीप्तगौरविग्रहे मुखप्रभापरास्तकोटिशारदेन्दुमण्डले।विचित्रचित्रसञ्चरच्चकोरशावलोचने कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥४॥

मदोन्मदातियौवने प्रमोदमानमण्डिते प्रियानुरागरञ्जिते कलाविलासपण्डिते।अनन्यधन्यकुञ्जराज्यकामकेलिकोविदे कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥५॥

अशेषहावभावधीरहीरहारभूषिते प्रभूतशातकुम्भकुम्भकुम्भिकुम्भसुस्तनि।प्रशस्तमन्दहास्यचूर्णपूर्णसौख्यसागरे कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥६॥

मृणालवालवल्लरीतरङ्गरङ्गदोर्लते लताग्रलास्यलोलनीललोचनावलोकने।ललल्लुलन्मिलन्मनोज्ञमुग्धमोहनाश्रिते कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥७॥

सुवर्णमालिकाञ्चितत्रिरेखकम्बुकण्ठगे त्रिसूत्रमङ्गलीगुणत्रिरत्नदीप्तिदीधिति।सलोलनीलकुन्तलप्रसूनगुच्छगुम्फिते कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥८॥

नितम्बबिम्बलम्बमानपुष्पमेखलागुणे प्रशस्तरत्नकिङ्किणीकलापमध्यमञ्जुले।करीन्द्रशुण्डदण्डिकावरोहसौभगोरुके कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥९॥

अनेकमन्त्रनादमञ्जुनूपुरारवस्खलत्समाजराजहंसवंशनिक्वणातिगौरवे।विलोलहेमवल्लरीविडम्बिचारुचङ्क्रमे कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥१०॥

अनन्तकोटिविष्णुलोकनम्रपद्मजार्चिते हिमाद्रिजापुलोमजाविरिञ्चजावरप्रदे।अपारसिद्ध्यृद्धिदिग्धसत्पदाङ्गुलीनखे कदा करिष्यसीह मां कृपाकटाक्षभाजनम् ॥११॥

मखेश्वरि क्रियेश्वरि स्वधेश्वरि सुरेश्वरि त्रिवेदभारतीश्वरि प्रमाणशासनेश्वरि।रमेश्वरि क्षमेश्वरि प्रमोदकाननेश्वरि व्रजेश्वरि व्रजाधिपे श्रीराधिके नमोऽस्तु ते ॥१२॥

इतीममद्भुतं स्तवं निशम्य भानुनन्दिनी करोतु सन्ततं जनं कृपाकटाक्षभाजनम्।भवेत्तदैव सञ्चितत्रिरूपकर्मनाशनं भवेत्तदा व्रजेन्द्रसूनुमण्डलप्रवेशनम् ॥१३॥

राकायां च सिताष्टम्यां दशम्यां च विशुद्धधीः।एकादश्यां त्रयोदश्यां यः पठेत्स स्वयं शिवः ॥१४॥

यं यं कामयते कामं तं तमाप्नोति साधकः।राधाकृपाकटाक्षेण भुक्त्वान्ते मोक्षमाप्नुयात् ॥१५॥

ऊरुदघ्ने नाभिदघ्ने हृद्दघ्ने कण्ठदघ्नके।राधाकुण्डजले स्थित्वा यः पठेत्साधकः शतम् ॥१६॥

तस्य सर्वार्थसिद्धिः स्याद्वाक्सामर्थ्यं तथा लभेत्।ऐश्वर्यं च लभेत्साक्षाद्दृशा पश्यति राधिकाम् ॥१७॥

तेन स तत्क्षणादेव तुष्टा दत्ते महावरम्।येन पश्यति नेत्राभ्यां तत्प्रियं श्यामसुन्दरम् ॥१८॥

नित्यलीलाप्रवेशं च ददाति श्रीव्रजाधिपः।अतः परतरं प्रार्थ्यं वैष्णवस्य न विद्यते ॥१९॥

Text source

Sanskrit Wikisource — Sadhana Dipika, sixth section

Traditional public-domain Sanskrit text; cited Wikisource transcription is CC BY-SA

The complete 19-verse recension was cross-checked with the IGNCA transliterated edition; obvious typographic errors and spacing were normalized.