Ashtakam

पशुपत्यष्टकम्

Pashupatyashtakam

An eightfold praise of Pashupati, Lord and compassionate guardian of all beings.

🔱Dedicated toशिवः

पशुपतीन्दुपतिं धरणीपतिं भुजगलोकपतिं च सतीपतिम् । गणतभक्तजनार्तिहरं परं भजत रे मनुजा गिरिजापतिम् ॥१॥

न जनको जननी न च सोदरः न तनयो न च भूरिबलं कुलम् । अवति कोऽपि न कालवशं गतं भजत रे मनुजा गिरिजापतिम् ॥२॥

मुरजडिण्डिमवाद्यविलक्षणं मधुरपञ्चमनादविशारदम् । प्रमथभूतगणैरपि सेवितं भजत रे मनुजा गिरिजापतिम् ॥३॥

हरिविरिञ्चिसुराधिपपूजितं यमजनेशधनेशवरप्रदम् । त्रिनयनं भुवनत्रितयाधिपं भजत रे मनुजा गिरिजापतिम् ॥४॥

Meaning

Meaning & context

A traditional Shaiva prayer with a separate plain-language meaning for every displayed verse.