नारायणी स्तुति (देवी माहात्म्य)
Narayani Stuti (Devi Mahatmya)
The complete 34-verse praise sung by the gods after Devi's victory, available separately for a focused Navratri reading.
Dedicated toदुर्गादेवि प्रपन्नार्तिहरे प्रसीदप्रसीद मातर्जगतोऽखिलस्य ।प्रसीद विश्वेश्वरि पाहि विश्वंत्वमीश्वरी देवि चराचरस्य॥९१.२ ॥
आधारभूता जगतस्त्वमेकामहीस्वरूपेण यतः स्थितासि ।अपां स्वरूपस्थितया त्वयैतद्आप्याय्यते कृत्स्त्रमलङ्घ्यवीर्ये॥९१.३ ॥
त्वं वैष्णवी शक्तिरनन्तवीर्याविश्वस्य बीजं परमासि माया ।संमोहितं देवि समस्तमेतत्तेवं वै प्रसन्ना भुवि मुक्तिहेतुः॥९१.४ ॥
विद्याः समस्तास्तव देवि भेदाःस्त्रियः समस्ताः सकला जगत्सु ।त्वयैकया पूरितमम्बयैतत्का ते स्तुतिः स्तव्यपरा परोक्तिः॥९१.५ ॥
सर्वभूता यदा देवी स्वर्गमुक्तिप्रदायिनी ।त्वं स्तुता स्तुतये का वा भवन्तु परमोक्तयः॥९१.६ ॥
सर्वस्य बुद्धिरूपेण जनस्य हृदि संस्थिते ।स्वर्गापवर्गदे देवि नारायणि नमोऽस्तु ते॥९१.७ ॥
कलाकाष्ठादिरूपेण परिणामप्रदायिनी ।विश्वस्योपरतौ शक्ते नारायणि नमोऽस्तु ते॥९१.८ ॥
सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधिके ।शरण्ये त्र्यम्बके गौरि नारायणि नमोऽस्तु ते॥९१.९ ॥
सृष्टिस्थितिविनाशानां शक्तिभूते सनातनि ।गुणाश्रये गुणमये नारायणि नमोऽस्तु ते॥९१.१० ॥
शरणागतदीनार्तपरित्राणपरायणे ।सर्वस्यार्तिहरे देवि नारायणि नमोऽस्तु ते॥९१.११ ॥
हंसयुक्तविमानस्थे ब्रह्माणीरूपधारिणि ।कौशाम्भः क्षरिके देवि नारायणि नमोऽस्तु ते॥९१.१२ ॥
त्रिशूलचन्द्राहिधरे महावृषभवाहिनि ।माहेश्वरीस्वरूपेण नारायणि नमोऽस्तु ते॥९१.१३ ॥
मयूरकुक्कुटवृते महाशक्तिधरेऽमघे ।कौमारीरूपसंस्थाने नारायणि नमोऽस्तु ते॥९१.१४ ॥
शङ्खचक्रगदाशार्ङ्गगृहीतपरमायुधे ।प्रसीद वैष्णवीरूपे नारायणि नमोऽस्तु ते॥९१.१५ ॥
गृहीतोग्रमहाचक्रे दंष्ट्रोद्धृतवसुन्धरे ।वराहरूपिणि शिवे नारायणि नमोऽस्तु ते॥९१.१६ ॥
नृसिंहरूपेणोग्रेण हन्तुं दैत्यान् कृतोद्यमे ।त्रैलोक्यत्राणसहिते नारायणि नमोऽस्तु ते॥९१.१७ ॥
किरीटिनि महावज्रे सहस्रनयनोज्ज्वले ।वृत्रप्राणहरे चैन्द्रि नारायणि नमोऽस्तु ते॥९१.१८ ॥
शिवदूतीस्वरूपेण हतदैत्यमहाबले ।घोररूपे महारावे नारायणि नमोऽस्तु ते॥९१.१९ ॥
दंष्ट्राकरालवदने शिरोमालाविभूषणे ।चामुण्डे मुण्डमथने नारायणि नमोऽस्तु ते॥९१.२० ॥
लक्ष्मि लज्जे महाविद्ये श्रद्धे पुष्टे स्वधे ध्रुवे ।महारात्रे महामाये नारायणि नमोऽस्तु ते॥९१.२१ ॥
मेधे सरस्वति वरे भूति बाभ्रवि तामसि ।नियते त्वं प्रसीदेशे नारायणि नमोऽस्तु ते॥९१.२२ ॥
सर्वतः पाणिपादान्ते सर्वतोऽक्षिशिरोमुखे ।सर्वतः श्रवणघ्राणे नारायणि नमोऽस्तु ते॥९१.२३ ॥
सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते ।भयेभ्यस्त्राहि नो देवि दुर्गे देवि नमोऽस्तु ते॥९१.२४ ॥
एतत्ते वदनं सौम्यं लोचनत्रयभूषितम् ।पातु नः सर्वभीतिभ्यः कात्यायनि नमोऽस्तु ते॥९१.२५ ॥
ज्वालाकरालमत्युग्रमशेषासुरशूदनम् ।त्रिशूलं पातु नो भीतेर्भद्रकालि नमोऽस्तुते॥९१.२६ ॥
हिनस्ति दैत्यतेजांसि स्वनेनापूर्य या जगत् ।सा घण्टा पातु नो देवि पापेभ्यो नः सुतानिव॥९१.२७ ॥
असुरासृग्वसापङ्कचर्चितस्ते करोज्ज्वलः ।शुभाय खड्गो भवतु चण्डिके त्वां नता वयम्॥९१.२८ ॥
रोगानशेषानपहंसि तुष्टारुष्टा तु कामान् सकलानभीष्टान् ।त्वामाश्रितानां न विपन्नराणांत्वामाश्रिता ह्याश्रयतां प्रयान्ति॥९१.२९ ॥
एतत्कृतं यत्कदनं त्वयाद्यधर्मद्विषां देवि महासुराणाम् ।रूपैरनेकैर्बहुधाऽत्ममूर्तिकृत्वाम्बिके तत्प्रकरोति कान्या॥९१.३० ॥
विद्यासु शास्त्रेषु विवेकदीपेष्व्आद्येषु वाक्येषु च का त्वदन्या ।ममत्वगर्तेऽतिमहान्धकारेविभ्रामयत्येतदतीव विश्वम्॥९१.३१ ॥
रक्षांसि यत्रोग्रविषाश्च नागायत्रारयो दस्युबलानि यत्र ।दावानलो यत्र तथाब्धिमध्येतत्र स्थिता त्वं परिपासि विश्वम्॥९१.३२ ॥
विश्वेश्वरि त्वं परिपासि विश्वंविश्वात्मिका धारयसीति विश्वम् ।विश्वेशवन्द्या भवती भवन्तिविश्वाश्रया ये त्वयि भक्तिनम्राः॥९१.३३ ॥
देवि प्रसीद परिपालय नोऽपरिभीतेर्नित्यं यथासुरवधादधुनैव सद्यः ।पापानि सर्वजगतां प्रशमं नयाशुउत्पातपाकजनितांश्च महोपसर्गान्॥९१.३४ ॥
प्रणतानां प्रसीद त्वं देवि विश्वार्तिहारिणी ।त्रैलोक्यवासिनामीड्ये लोकानां वरदा भव॥९१.३५ ॥