महामृत्युञ्जयस्तोत्रम्
Maha Mrityunjaya Stotram
Markandeya’s complete hymn of courage before time and death.
ॐ रुद्रं पशुपतिं स्थाणुं नीलकण्ठमुमापतिम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १॥
नीलकण्ठं कालमूर्त्तिं कालज्ञं कालनाशनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ २॥
नीलकण्ठं विरूपाक्षं निर्मलं निलयप्रदम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ३॥
वामदेवं महादेवं लोकनाथं जगद्गुरुम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ४॥
देवदेवं जगन्नाथं देवेशं वृषभध्वजम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ५॥
त्र्यक्षं चतुर्भुजं शान्तं जटामकुटधारिणम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ६॥
भस्मोद्धूलितसर्वाङ्गं नागाभरणभूषितम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ७॥
अनन्तमव्ययं शान्तं अक्षमालाधरं हरम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ८॥
आनन्दं परमं नित्यं कैवल्यपददायिनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ९॥
अर्द्धनारीश्वरं देवं पार्वतीप्राणनायकम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १०॥
प्रलयस्थितिकर्त्तारमादिकर्त्तारमीश्वरम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ ११॥
व्योमकेशं विरूपाक्षं चन्द्रार्द्धकृतशेखरम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १२॥
गङ्गाधरं शशिधरं शङ्करं शूलपाणिनम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १३॥
अनाथः परमानन्तं कैवल्यपदगामिनि । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १४॥
स्वर्गापवर्गदातारं सृष्टिस्थित्यन्तकारणम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १५॥
कल्पायुर्द्देहि मे पुण्यं यावदायुररोगताम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १६॥
शिवेशानां महादेवं वामदेवं सदाशिवम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १७॥
उत्पत्तिस्थितिसंहारकर्तारमीश्वरं गुरुम् । नमामि शिरसा देवं किं नो मृत्युः करिष्यति ॥ १८॥
मार्कण्डेयकृतं स्तोत्रं यः पठेच्छिवसन्निधौ । तस्य मृत्युभयं नास्ति नाग्निचौरभयं क्वचित् ॥ १९॥
शतावर्त्तं प्रकर्तव्यं संकटे कष्टनाशनम् । शुचिर्भूत्वा पथेत्स्तोत्रं सर्वसिद्धिप्रदायकम् ॥ २०॥
मृत्युञ्जय महादेव त्राहि मां शरणागतम् । जन्ममृत्युजरारोगैः पीडितं कर्मबन्धनैः ॥ २१॥
तावकस्त्वद्गतः प्राणस्त्वच्चित्तोऽहं सदा मृड । इति विज्ञाप्य देवेशं त्र्यम्बकाख्यमनुं जपेत् ॥ २२॥
नमः शिवाय साम्बाय हरये परमात्मने । प्रणतक्लेशनाशाय योगिनां पतये नमः ॥ २३॥
Meaning & context
A complete 23-part source text with a separate English and Hindi explanatory meaning aligned to every displayed row.