Stotra

काशी पञ्चकम्

Kashi Panchakam

Five contemplative verses seeing Kashi as the city of liberating awareness.

Dedicated toशिवः
Sacred textOriginal Sanskrit

मनोनिवृत्तिः परमोपशान्तिः सा तीर्थवर्या मणिकर्णिका च ।ज्ञानप्रवाहा विमलादिगङ्गा सा काशिकाहं निजबोधरूपा ॥१॥

यस्यामिदं कल्पितमिन्द्रजालं चराचरं भाति मनोविलासम् ।सच्चित्सुखैका परमात्मरूपा सा काशिकाहं निजबोधरूपा ॥२॥

कोशेषु पञ्चस्वधिराजमाना बुद्धिर्भवानी प्रतिदेहगेहम् ।साक्षी शिवः सर्वगतोऽन्तरात्मा सा काशिकाहं निजबोधरूपा ॥३॥

काश्यां हि काश्यते काशी काशी सर्वप्रकाशिका ।सा काशी विदिता येन तेन प्राप्ता हि काशिका ॥४॥

काशीक्षेत्रं शरीरं त्रिभुवनजननी व्यापिनी ज्ञानगङ्गा भक्तिः श्रद्धा गयेयं निजगुरुचरणध्यानयोगः प्रयागः ।विश्वेशोऽयं तुरीयः सकलजनमनःसाक्षिभूतोऽन्तरात्मा देहे सर्वं मदीये यदि वसति पुनस्तीर्थमन्यत्किमस्ति ॥५॥

Meaning

Meaning & context

A traditional Shaiva prayer with a separate plain-language meaning for every displayed verse.