गोविन्दाष्टकम्
Govindashtakam
A philosophical and playful hymn praising Govinda as both child of Vraja and supreme bliss.
सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम्। गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम्। मायाकल्पितनानाकारमनाकारं भुवनाकारम्। क्ष्मानाथमनाथं प्रणमत गोविन्दं परमानन्दम्॥१॥
मृत्स्नामत्सीहेति यशोदाताडनशैशवसन्त्रासम्। व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम्। लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकम्। लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम्॥२॥
त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम्। कैवल्यं नवनीताहारमनाहारं भुवनाहारम्। वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम्। शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम्॥३॥
गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम्। गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम्। गोभिर्निगदितगोविन्दस्फुटनामानं बहुनामानम्। गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम्॥४॥
गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभम्। शश्वद्गोखुरनिर्धूतोद्धतधूलीधूसरसौभाग्यम्। श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम्। चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम्॥५॥
स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम्। व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तम्। निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तस्थम्। सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम्॥६॥
कान्तं कारणकारणमादिमनादिं कालमनाभासम्। कालिन्दीगतकालियशिरसि मुहुर्नृत्यन्तं सुनृत्यन्तम्। कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम्। कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम्॥७॥
वृन्दावनभुवि वृन्दारकगणवृन्दाराध्यं वन्देऽहम्। कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दम्। वन्द्याशेषमहामुनिमानसवन्द्यानन्दपदद्वन्द्वम्। वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम्॥८॥
गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यो। गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति। गोविन्दाङ्घ्रिसरोजध्यानसुधाजलधौतसमस्ताघो। गोविन्दं परमानन्दामृतमन्तःस्थं स तमभ्येति॥९॥
Meaning & context
Govindashtakam moves deliberately between Krishna's Vraja lilas and contemplative descriptions of the divine as truth, consciousness and bliss.