Ashtakam

दामोदराष्टकम्

Damodarashtakam

Satyavrata Muni's eight-verse Kartika hymn to child Krishna as Damodara.

Dedicated toकृष्णः
Sacred textOriginal Sanskrit

नमामीश्वरं सच्चिदानन्दरूपं लसत्कुण्डलं गोकुले भ्राजमानम्।यशोदाभियोलूखलाद्धावमानं परामृष्टमत्यन्ततो द्रुत्य गोप्या ॥१॥

रुदन्तं मुहुर्नेत्रयुग्मं मृजन्तं कराम्भोजयुग्मेन सातङ्कनेत्रम्।मुहुः श्वासकम्पत्रिरेखाङ्ककण्ठस्थितग्रैवदामोदरं भक्तिबद्धम् ॥२॥

इतीदृक्स्वलीलाभिरानन्दकुण्डे स्वघोषं निमज्जन्तमाख्यापयन्तम्।तदीयेषितज्ञेषु भक्तैर्जितत्वं पुनः प्रेमतस्तं शतावृत्ति वन्दे ॥३॥

वरं देव मोक्षं न मोक्षावधिं वा न चान्यं वृणेऽहं वरेशादपीह।इदं ते वपुर्नाथ गोपालबालं सदा मे मनस्याविरास्तां किमन्यैः ॥४॥

इदं ते मुखाम्भोजमत्यन्तनीलैर्वृतं कुन्तलैः स्निग्धरक्तैश्च गोप्या।मुहुश्चुम्बितं बिम्बरक्ताधरं मे मनस्याविरास्तामलं लक्षलाभैः ॥५॥

नमो देव दामोदरानन्त विष्णो प्रसीद प्रभो दुःखजालाब्धिमग्नम्।कृपादृष्टिवृष्ट्यातिदीनं बतानु गृहाणेश मामज्ञमेध्यक्षिदृश्यः ॥६॥

कुवेरात्मजौ बद्धमूर्त्यैव यद्वत्त्वया मोचितौ भक्तिभाजौ कृतौ च।तथा प्रेमभक्तिं स्वकां मे प्रयच्छ न मोक्षे ग्रहो मेऽस्ति दामोदरेह ॥७॥

नमस्तेऽस्तु दाम्ने स्फुरद्दीप्तिधाम्ने त्वदीयोदरायाथ विश्वस्य धाम्ने।नमो राधिकायै त्वदीयप्रियायै नमोऽनन्तलीलाय देवाय तुभ्यम् ॥८॥

Text source

Sanskrit Wikisource — Shabdakalpadruma, Damodarashtakam citation

Public-domain traditional text; Wikisource transcription is CC BY-SA