Ashtakam

बिल्वाष्टकम्

Bilvashtakam

Eight verses offering the sacred three-leaf bilva to Shiva.

🔱Dedicated toशिवः

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम्। त्रिजन्मपापसंहारमेकबिल्वं शिवार्पणम्॥१॥

त्रिशाखैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः। शिवपूजां करिष्यामि ह्येकबिल्वं शिवार्पणम्॥२॥

अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे। शुद्ध्यन्ति सर्वपापेभ्यो ह्येकबिल्वं शिवार्पणम्॥३॥

शालिग्रामशिलामेकां विप्राणां जातु चार्पयेत्। सोमयज्ञमहापुण्यमेकबिल्वं शिवार्पणम्॥४॥

दन्तिकोटिसहस्राणि वाजपेयशतानि च। कोटिकन्यामहादानमेकबिल्वं शिवार्पणम्॥५॥

लक्ष्म्यास्तनुत उत्पन्नं महादेवस्य च प्रियम्। बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वं शिवार्पणम्॥६॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम्। अघोरपापसंहारमेकबिल्वं शिवार्पणम्॥७॥

मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे। अग्रतः शिवरूपाय ह्येकबिल्वं शिवार्पणम्॥८॥

Meaning

Meaning & context

Each stanza offers one bilva leaf while contemplating its three parts as symbols of divine unity and purification.