अर्धनारीश्वराष्टकम्
Ardhanarishvara Ashtakam
Nine traditional verses contemplating Shiva and Shakti as one indivisible reality.
अंभोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय। निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय॥१॥
प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय। शिवप्रियायै च शिवप्रियाय नमः शिवायै च नमः शिवाय॥२॥
मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय। दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय॥३॥
कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय। कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय॥४॥
पादारविन्दार्पितहंसकायै पादाब्जराजत्फणिनूपुराय। कलामयायै विकलामयाय नमः शिवायै च नमः शिवाय॥५॥
प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय। समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय॥६॥
प्रफुल्लनीलोत्पललोचनायै विकासपङ्केरुहलोचनाय। जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय॥७॥
अन्तर्बहिश्चोर्ध्वमधश्च मध्ये पुरश्च पश्चाच्च विदिक्षु दिक्षु। सर्वं गतायै सकलं गताय नमः शिवायै च नमः शिवाय॥८॥
अर्धनारीश्वरस्तोत्रमुपमन्युकृतं त्विदम्। यः पठेच्छृणुयाद्वापि शिवलोके महीयते॥९॥
Meaning & context
The hymn honours the complementary forms of Shiva and Shakti as a single all-pervading divine reality.