Ashtakam

अर्धनारीश्वराष्टकम्

Ardhanarishvara Ashtakam

Nine traditional verses contemplating Shiva and Shakti as one indivisible reality.

Dedicated toशिवः
Sacred textOriginal Sanskrit

अंभोधरश्यामलकुन्तलायै तटित्प्रभाताम्रजटाधराय।निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥१॥

प्रदीप्तरत्नोज्ज्वलकुण्डलायै स्फुरन्महापन्नगभूषणाय।शिवप्रियायै च शिवप्रियाय नमः शिवायै च नमः शिवाय ॥२॥

मन्दारमालाकलितालकायै कपालमालाङ्कितकन्धराय।दिव्याम्बरायै च दिगम्बराय नमः शिवायै च नमः शिवाय ॥३॥

कस्तूरिकाकुङ्कुमलेपनायै श्मशानभस्मात्तविलेपनाय।कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥४॥

पादारविन्दार्पितहंसकायै पादाब्जराजत्फणिनूपुराय।कलामयायै विकलामयाय नमः शिवायै च नमः शिवाय ॥५॥

प्रपञ्चसृष्ट्युन्मुखलास्यकायै समस्तसंहारकताण्डवाय।समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥६॥

प्रफुल्लनीलोत्पललोचनायै विकासपङ्केरुहलोचनाय।जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥७॥

अन्तर्बहिश्चोर्ध्वमधश्च मध्ये पुरश्च पश्चाच्च विदिक्षु दिक्षु।सर्वं गतायै सकलं गताय नमः शिवायै च नमः शिवाय ॥८॥

अर्धनारीश्वरस्तोत्रमुपमन्युकृतं त्विदम्।यः पठेच्छृणुयाद्वापि शिवलोके महीयते ॥९॥

Meaning

Meaning & context

The hymn honours the complementary forms of Shiva and Shakti as a single all-pervading divine reality.