Vishwanatha Ashtakam
विश्वेश्वराष्टकम्
Eight verses to the Lord of Varanasi with fruit verse.
गङ्गातरङ्गकमनीयजटाकलापं गौरनिरन्तरविभूषितवामभागम् । नारायणप्रिय मनङ्गमदापहारं वाराणसीपुरपतिं भज विश्वनाथम् ॥ १
वाचामगोचरममेयगुणखरूपं वागीशविष्णुसुरसेक्तिपादपीठम् । वामेन विग्रहभरेण कळत्रवन्तं वाराणसीपुरपतिं भज विश्वनाथम् ॥ २
रागादिदोषरहितं सुगुणानुरागं वैराग्यशान्तिनिलयं गिरिजासहायम् । माधुर्यधैर्यनिलयं गरळाभिरामं वाराणसीपुरपतिं भज विश्वनाथम् ॥ ३
तेजोमयं सकलनिष्कळमद्वितीय- मानन्दकन्दमपराजितमप्रमेयम् । नानात्मकं सगुणनिर्गुणमादिदेवं वाराणसीपुरपतिं भज विश्वनाथम् ॥ ४
भूताधिपं भुजगपुङ्गवभूषिताङ्गं व्याघ्राजिनाम्बरधरं जटिलं त्रिनेत्रम् । पाशाङ्कुशाभयवरप्रदशूलपाणिं वाराणसीपुरपतिं भज विश्वनाथम् ॥ ५
आशां विहाय परिहृत्य परस्वनिन्दां पापे रतिञ्च विनिवार्य मनस्समाधौ । आधारहृत्कमलमध्यगतं परेशं वाराणसीपुरपतिं भज विश्वनाथम् ॥ ६
शीतांशुशोभितकिरीटविराजमानं फालेक्षणानलविनाशितपञ्चबाणम् । नागाधिपारचितभासुरकर्णपूरं वाराणसीपुरपतिं भज विश्वनाथम् ॥ ७
पश्चाननं दुरितमत्तमतङ्गजानां नागान्तकं दनुजपुङ्गवपन्नगानाम् । दावानलं मरणशोकभयाटवीनां वाराणसीपुरपतिं भज विश्वनाथम् ॥ ८
वाराणसीपुरपतेः परमेश्वरस्य व्याघ्रोक्तमष्टकमिदं पठते मनुष्यः । विद्याश्श्रियं विपुलसौख्यमनन्तकीर्तिं सम्प्राप्य देहविलये लभते च मोक्षम् ॥ ९ ॥
Related Shiva prayers
Lingashtakam ↗Ardhanarishvara Ashtakam ↗Rudrashtakam ↗What does Vishwanatha Ashtakam mean?
A complete 9-part source text with a separate English and Hindi explanatory meaning aligned to every displayed row.
Source & verification
Vishwanatha Ashtakam — traditional source
Traditional/public-domain work; source transcription CC BY-SA
Source text normalized for readability; bilingual descriptive meanings are original BhajanDhara summaries.
Last verified: 2026-09-06