Stotra
Vishnu Shodasha Nama Stotram
श्री विष्णु षोडशनाम स्तोत्रम् · श्रीविष्णोः षोडशनामस्तोत्रम्
Sixteen names of Vishnu remembered at different moments of daily life.
Dedicated toLord Vishnuऔषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम्।शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥१॥
युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम्।नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥२॥
दुःस्वप्ने स्मर गोविन्दं संकटे मधुसूदनम्।कानने नारसिंहं च पावके जलशायिनम् ॥३॥
जलमध्ये वराहं च पर्वते रघुनन्दनम्।गमने वामनं चैव सर्वकार्येषु माधवम् ॥४॥
षोडशैतानि नामानि प्रातरुत्थाय यः पठेत्।सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥५॥
Related prayers
Shantakaram Bhujagashayanam ↗Vishnu Ashtavimshati Nama Stotram ↗Vishnu Shatanama Stotram ↗What does Vishnu Shodasha Nama Stotram mean?
The hymn connects sixteen names and forms of Vishnu with ordinary transitions, journeys and moments of vulnerability.