Stotra

Vishnu Shatanama Stotram

विष्णु शतनाम स्तोत्रम् · विष्णुशतनामस्तोत्रम्

One hundred names contemplating Vishnu's forms, qualities, weapons and cosmic presence.

SanskritHinglishOptional meaning8 min✓ Reviewed
🪷Dedicated toLord Vishnu

वासुदेवं हृषीकेशं वामनं जलशायिनम्। जनार्दनं हरिं कृष्णं श्रीवक्षं गरुडध्वजम्॥१॥

वाराहं पुण्डरीकाक्षं नृसिंहं नरकान्तकम्। अव्यक्तं शाश्वतं विष्णुमनन्तमजमव्ययम्॥२॥

नारायणं गदाध्यक्षं गोविन्दं कीर्तिभाजनम्। गोवर्धनोद्धरं देवं भूधरं भुवनेश्वरम्॥३॥

वेत्तारं यज्ञपुरुषं यज्ञेशं यज्ञवाहकम्। चक्रपाणिं गदापाणिं शङ्खपाणिं नरोत्तमम्॥४॥

वैकुण्ठं दुष्टदमनं भूगर्भं पीतवाससम्। त्रिविक्रमं त्रिकालज्ञं त्रिमूर्तिं नन्दिकेश्वरम्॥५॥

रामं रामं हयग्रीवं भीमं रौद्रं भवोद्भवम्। श्रीपतिं श्रीधरं श्रीशं मङ्गलं मङ्गलायुधम्॥६॥

दामोदरं दमोपेतं केशवं केशिसूदनम्। वरेण्यं वरदं विष्णुमानन्दं वसुदेवजम्॥७॥

हिरण्यरेतसं दीप्तं पुराणं पुरुषोत्तमम्। सकलं निष्कलं शुद्धं निर्गुणं गुणशाश्वतम्॥८॥

हिरण्यतनुसङ्काशं सूर्यायुतसमप्रभम्। मेघश्यामं चतुर्बाहुं कुशलं कमलेक्षणम्॥९॥

ज्योतिरूपमरूपं च स्वरूपं रूपसंस्थितम्। सर्वज्ञं सर्वरूपस्थं सर्वेशं सर्वतोमुखम्॥१०॥

ज्ञानं कूटस्थमचलं ज्ञानदं परमं प्रभुम्। योगीशं योगनिष्णातं योगिनं योगरूपिणम्॥११॥

ईश्वरं सर्वभूतानां वन्दे भूतमयं प्रभुम्। इति नामशतं दिव्यं वैष्णवं खलु पापहम्॥१२॥

व्यासेन कथितं पूर्वं सर्वपापप्रणाशनम्। यः पठेत् प्रातरुत्थाय स भवेद्वैष्णवो नरः॥१३॥

सर्वपापविशुद्धात्मा विष्णुसायुज्यमाप्नुयात्। चान्द्रायणसहस्राणि कन्यादानशतानि च॥१४॥

गवां लक्षसहस्राणि मुक्तिभागी भवेन्नरः। अश्वमेधायुतं पुण्यं फलं प्राप्नोति मानवः॥१५॥

ॐ नमो भगवते वासुदेवाय॥

Continue exploring

Related prayers

Shantakaram Bhujagashayanam Vishnu Shodasha Nama Stotram Vishnu Ashtavimshati Nama Stotram
Meaning & context

What does Vishnu Shatanama Stotram mean?

The hundred-name hymn moves from familiar avatars and emblems to contemplative names for Vishnu as the eternal, all-pervading ground of existence.

Source

Reference & verification

Sanskrit Wikisource — Vishnu Shatanama Stotram

Underlying traditional work is public domain; source page is CC BY-SA

Prepared from the cited traditional recension; minor orthographic variants exist between editions.

Open reference source ↗

Last reviewed: 2026-09-08