Shri Rudram — Namakam
श्रीरुद्रम् — नमकम्
Eleven Vedic anuvākas saluting Rudra throughout nature and life.
ॐ नमो भगवते रुद्राय ॥ नमस्ते रुद्रमन्यव उतोत इषवे नमः । नमस्ते अस्तु धन्वने बाहुभ्यामुत ते नमः ॥ १.१॥ यात इषुः शिवतमा शिवं बभूव ते धनुः । शिवा शरव्या या तव तया नो रुद्र मृडय ॥ १.२॥ या ते रुद्र शिवा तनूरघोराऽपापकाशिनी । तया नस्तनुवा शन्तमया गिरिशञ्ज्ताभिचाकशीहि ॥ १.३॥ यामिषुं गिरिशञ्ज्त हस्ते बिभर्ष्यस्तवे । शिवां गिरित्र तां कुरु मा हिꣳसीः पुरुषं जगत् ॥ १.४॥ शिवेन वचसा त्वा गिरिशाच्छा वदामसि । यथा नः सर्वमिज्जगदयक्ष्मसुमना असत् ॥ १.५॥ अध्यवोचदधि वक्ता प्रथमो दैव्यो भिषक् । अहीश्च सर्वाञ्जम्भयन्त्सर्वाश्च यातुधान्यः ॥ १.६॥ असौ यस्ताम्रो अरुण उत बभ्रुः सुमञ्ज्गलः । ये चेमारुद्रा अभितो दिक्षु । श्रिताः सहस्रशोऽवैषाहेड ईमहे ॥ १.७॥ असौ योऽवसर्पति नीलग्रीवो विलोहितः । उतैनं गोपा अदृशन्नदृशन्नुदहार्यः । उतैनं विश्वा भूतानि स दृष्टो मृडयाति नः ॥ १.८॥ नमो अस्तु नीलग्रीवाय सहस्राक्षाय मीढुषे । अथो ये अस्य सत्वानोऽहं तेभ्योऽकरन्नमः ॥ १.९॥ प्रमुञ्ज्च धन्वनस्त्वमुभयोरार्त्नियोर्ज्याम् । याश्च ते हस्त इषवः परा ता भगवो वप ॥ १.१०॥ अवतत्य धनुस्त्व सहस्राक्ष शतेषुधे । निशीर्य शल्यानां मुखा शिवो नः सुमना भव ॥ १.११॥ विज्यं धनुः कपर्दिनो विशल्यो बाणवा उत । अनेशन्नस्येषव आभुरस्य निषञ्ज्गथिः ॥ १.१२॥ या ते हेतिर्मीढुष्टम हस्ते बभूव ते धनुः । तयाऽस्मान्विश्वतस्त्वमयक्ष्मया परिब्भुज ॥ १.१३॥ नमस्ते अस्त्वायुधायानातताय धृष्णवे । उभाभ्यामुत ते नमो बाहुभ्यां तव धन्वने ॥ १.१४॥ परि ते धन्वनो हेतिरस्मान्व्रुणक्तु विश्वतः । अथो य इषुधिस्तवारे अस्मन्निधेहि तम् ॥ १.१५॥
नमस्ते अस्तु भगवन् विश्वेश्वराय महादेवाय त्र्यम्बकाय त्रिपुरान्तकाय त्रिकाग्निकालाय कालाग्निरुद्राय नीलकण्ठाय मृत्युञ्जयाय सर्वेश्वराय सदाशिवाय श्रीमन्महादेवाय नमः ॥ २.०॥ नमो हिरण्यबाहवे सेनान्ये दिशाञ्ज् च पतये नमो नमो वृक्षेभ्यो हरिकेशेभ्यः पशूनां पतये नमो नमः सस्पिञ्चराय त्विषीमते पथीनां पतये नमो नमो बभ्लुशाय विव्याधिनेऽन्नानां पतये नमो नमो हरिकेशायोपवीतिने पुष्टानां पतये नमो नमो भवस्य हेत्यै जगतां पतये नमो नमो रुद्रायातताविने क्षेत्राणां पतये नमो नमः सूतायाहन्त्याय वनानां पतये नमो नमः ॥ २.१॥ रोहिताय स्थपतये वृक्षाणां पतये नमो नमो मन्त्रिणे वाणिजाय कक्षाणां पतये नमो नमो भुवञ्ज्तये वारिवस्कृतायौषधीनां पतये नमो नम उच्चैर्घोषायाक्रन्दयते पत्तीनां पतये नमो नमः कृत्स्नवीताय धावते सत्वनां पतये नमः ॥ २.२॥
नमः सहमानाय निव्याधिन आव्याधिनीनां पतये नमो नमः ककुभाय निषङ्गिणे स्तेनानां पतये नमो नमो निषङ्गिण इषुधिमते तस्कराणां पतये नमो नमो वञ्चते परिवञ्चते स्तायूनां पतये नमो नमो निचेरवे परिचरायारण्यानां पतये नमो नमः सृकाविभ्यो जिघासद्भ्यो मुष्णतां पतये नमो नमो ऽसिमद्भ्यो नक्तं चरद्भ्यः प्रकृन्तानां पतये नमो नम उष्णीषिणे गिरिचराय कुलुञ्चानां पतये नमो नमः ॥ ३.१॥ इषुमद्भ्यो धन्वाविभ्यश्च वो नमो नम आतन्वानेभ्यः प्रतिदधानेभ्यश्च वो नमो नम आयच्छद्भ्यो विसृजद्भ्यश्च वो नमो नमो ऽस्यद्भ्यो विद्ध्यद्भ्यश्च वो नमो नम आसीनेभ्यः शयानेभ्यश्च वो नमो नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमो नम स्तिष्ठद्भ्यो धावद्भ्यश्च वो नमो नमः सभाभ्यः सभापतिभ्यश्च वो नमो नमो अश्वेभ्योऽश्वपतिभ्यश्च वो नमः ॥ ३.२॥
नम आव्याधिनीभ्यो विविध्यन्तीभ्यश्च वो नमो नम उगणाभ्यस्तृहतीभ्यश्च वो नमो नमो गृत्सेभ्यो ग्रुत्सपतिभ्यश्च वो नमो नमो व्रातेभ्यो व्रातपतिभ्यश्च वो नमो नमो गणेभ्यो गणपतिभ्यश्च वो नमो नमो विरूपेभ्यो विश्वरूपेभ्यश्च वो नमो नमो महद्भ्यः क्षुल्लकेभ्यश्च वो नमो नमो रथिभ्योऽरथेभ्यश्च वो नमो नमो रथेभ्यः ॥ ४.१॥ रथपतिभ्यश्च वो नमो नमः सेनाभ्यः सेननिभ्यश्च वो नमो नमः क्षत्तृभ्यः सञ्ज्ग्रहीतृभ्यश्च वो नमो नम स्तक्षभ्यो रथकारेभ्यश्च वो नमो नमः कुलालेभ्यः कर्मारेभ्यश्च वो नमो नमः पुञ्जिष्टेभ्यो निषादेभ्यश्च वो नमो नम इषुकृद्भ्यो धन्वकृद्भ्यश्च वो नमो नमो म्रुगयुभ्यः श्वनिभ्यश्च वो नमो नमः श्वभ्यः श्वपतिभ्यश्च वो नमः ॥ ४.२॥
नमो भवाय च रुद्राय च नमः शर्वाय च पशुपतये च नमो नीलग्रीवाय च शितिकण्ठाय च नमः कपर्दिने च व्युप्तकेशाय च नमः सहस्राक्षाय च शतधन्वने च नमो गिरिशाय च शिपिविष्टाय च नमो मीढुष्टमाय चेषुमते च नमो ह्रस्वाय च वामनाय च नमो बृहते च वर्षीयसे च नमो वृद्धाय च संवृद्ध्वने च ॥ ५.१॥ नमो अग्रियाय च प्रथमाय च नम आशवे चाजिराय च नम्ः शीघ्रियाय च शीभ्याय च नम् ऊर्म्याय चावस्वन्याय च नमः स्रोतस्याय च द्वीप्याय च ॥ ५.२॥
नमो ज्येष्ठाय च कनिष्ठाय च नमः पूर्वजाय चापरजाय च नमो मध्यमाय चापगल्भाय च नमो जघन्याय च बुध्नियाय च नमः सोभ्याय च प्रतिसर्याय च नमो याम्याय च क्षेम्याय च नम उर्वर्याय च खल्याय च नमः श्लोक्याय चावसान्याय च नमो वन्याय च कक्ष्याय च नमः श्रवाय च प्रतिश्रवाय च ॥ ६.१॥ नम आशुषेणाय चाशुरथाय च नमः शूराय चावभिन्दते च नमो वर्मिणे च वरूथिने च नमो बिल्मिने च कवचिने च नमः श्रुताय च श्रुतसेनाय च ॥ ६.२॥
नमो दुन्दुभ्याय चाहनन्याय च नमो धृष्णवे च प्रमृशाय च नमो दूताय च प्रहिताय च नमो निषङ्गिणे चेषुधिमते च नमस्तीक्ष्णेषवे चायुधिने च नमः स्वायुधाय च सुधन्वने च नमः स्रुत्याय च पथ्याय च नमः काट्याय च नीप्याय च नमः सूद्याय च सरस्याय च नमो नाद्याय च वैशन्ताय च ॥ ७.१॥ नमः कूप्याय चावट्याय च नमो वर्ष्याय चावर्ष्याय च नमो मेघ्याय च विद्युत्याय च नम ईघ्रियाय चातप्याय च नमो वात्याय च रेष्मियाय च नमो वास्तव्याय च वास्तुपाय च ॥ ७.२॥
नमः सोमाय च रुद्राय च नमस्ताम्राय चारुणाय च नमः शङ्गाय च पशुपतये च नम उग्राय च भीमाय च नमो अग्रेवधाय च दूरेवधाय च नमो हन्त्रे च हनीयसे च नमो वृक्षेभ्यो हरिकेशेभ्यो नमस्ताराय नमः शम्भवे च मयोभवे च नमः शञ्ज्कराय च मयस्कराय च नमः शिवाय च शिवतराय च ॥ ८.१॥ नमस्तीर्थ्याय च कूल्याय च नमः पार्याय चावार्याय च नमः प्रतरणाय चोत्तरणाय च नम आतार्याय चालाद्याय च नमः शष्प्याय च फेन्याय च नमः सिकत्याय च प्रवाह्याय च ॥ ८.२॥
नम इरिण्याय च प्रपथ्याय च नमः किशिलाय च क्षयणाय च नमः कपर्दिने च पुलस्तये च नमो गोष्ठ्याय च गृह्याय च नमस्तल्प्याय च गेह्याय च नमः काट्याय च गह्वरेष्ठाय च नमो हृदय्याय च निवेष्प्याय च नमः पाꣳसव्याय च रजस्याय च नमः शुष्क्याय च हरित्याय च नमो लोप्याय चोलप्याय च ॥ ९.१॥ नम ऊर्व्याय च सूर्म्याय च नमः पर्ण्याय च पर्णशद्याय च नमोऽपगुरमाणाय चाभिघ्नते च नम आख्खिदते च प्रख्खिदते च नमो वः किरिकेभ्यो देवाना हृदयेभ्यो नमो विक्षीणकेभ्यो नमो विचिन्वत्केभ्यो नम आनिर्हतेभ्यो नम आमीवत्केभ्यः ॥ ९.२॥
द्रापे अन्धसस्पते दरिद्रन्नीललोहित । एषां पुरुषाणामेषां पशूनां मा भेर्मारो मो एषां किञ्ज्चनाममत् ॥ १०.१॥ या ते रुद्र शिवा तनूः शिवा विश्वाह भेषजी । शिवा रुद्रस्य भेषजी तया नो मृड जीवसे ॥ १०.२॥ इमारुद्राय तवसे कपर्दिने क्षयद्वीराय प्रभरामहे मतिम् । यथा नः शमसद्द्विपदे चतुष्पदे विश्वं पुष्टं ग्रामे आस्मिन्ननातुरम् ॥ १०.३॥ मृडा नो रुद्रोतनो मयस्कृधि क्षयद्वीराय नमसा विधेम ते । यच्छं च योश्च मनुरायजे पिता तदश्याम तव रुद्र प्रणीतौ ॥ १०.४॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । मा नो वधीः पितरं मोत मातरं प्रिया मा नस्तनुवो रुद्र रीरिषः ॥ १०.५॥ मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितोऽवधीर्हविष्मन्तो नमसा विधेम ते ॥ १०.६॥ आरात्ते गोघ्न उत्त पूरुषघ्ने क्षयद्वीराय सुम्नमस्मे ते अस्तु । रक्षा च नो अधि च देव ब्रूह्यथा च नः शर्म यच्छ द्विबर्हाः ॥ १०.७॥ स्तुहि श्रुतं गर्तसदं युवानं मृगन्न भीममुपहत्नुमुग्रम् । म्रुडा जरित्रे रुद्र स्तवानो अन्यन्ते अस्मन्निवपन्तु सेनाः ॥ १०.८॥ परिणो रुद्रस्य हेतिर्वृणक्तु परि त्वेषस्य दुर्मतिरघायोः । अव स्थिरा मघवद्भ्यस्तनुष्व मीढ्वस्तोकाय तनयाय म्रुडय ॥ १०.९॥ मीढुष्टम शिवतम शिवो नः सुमना भव । परमे व्रुक्ष आयुधं निधाय कृत्तिं वसान आचर पिनाकं विभ्रदागहि ॥ १०.१०॥ विकिरिद विलोहित नमस्ते अस्तु भगवः । यास्ते सहस्रहेतयोऽन्यमस्मन्निवपन्तु ताः ॥ १०.११॥ सहस्राणि सहस्रधा बाहुवोस्तव हेतयः । तासामीशानो भगवः पराचीना मुखा कृधि ॥ १०.१२॥
सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् । तेषासहस्रयोजनेऽवधन्वानि तन्मसि ॥ ११.१॥ अस्मिन् महत्यर्णवेऽन्तरिक्षे भवा अधि ॥ ११.२॥ नीलग्रीवाः शितिकण्ठाः शर्वा अधः क्षमाचराः ॥ ११.३॥ नीलग्रीवाः शितिकण्ठा दिवरुद्रा उपश्रिताः ॥ ११.४॥ ये वृक्षेषु सस्पिञ्जरा नीलग्रीवा विलोहिताः ॥ ११.५॥ ये भूतानामधिपतयो विशिखासः कपर्दिनः ॥ ११.६॥ ये अन्नेषु विविध्यन्ति पात्रेषु पिबतो जनान् ॥ ११.७॥ ये पथां पथिरक्षय ऐलबृदा यव्युधः ॥ ११.८॥ ये तीर्थानि प्रचरन्ति सृकावन्तो निषङ्गिणः ॥ ११.९॥ य एतावन्तश्च भूयासश्च दिशो रुद्रा वितस्थिरे तेषासहस्रयोजने । अवधन्वानि तन्मसि ॥ ११.१०॥ नमो रुद्रेभ्यो ये पृथिव्यां ये । अन्तरिक्षे ये दिवि येषामन्नं वातो वर्षमिषवस्तेभ्यो दश प्राचीर्दश दक्षिणा दश प्रतीचीर्दशोदीचीर्दशोर्ध्वास्तेभ्यो नमस्ते नो मृडयन्तु ते यं द्विष्मो यश्च नो द्वेष्टि तं वो जम्भे दधामि ॥ ११.११॥
Related Shiva prayers
Om Namah Shivaya ↗Maha Mrityunjaya Mantra ↗Rudra Gayatri Mantra ↗What does Shri Rudram — Namakam mean?
A complete 11-part source text with a separate English and Hindi explanatory meaning aligned to every displayed row.
Source & verification
Shri Rudram — Namakam — traditional source
Ancient or traditional public-domain work; source transcription used for verification
Source text normalized for readability; bilingual descriptive meanings are original BhajanDhara summaries.
Last verified: 2026-09-06