Stotra

Purusha Sukta

पुरुष सूक्त · पुरुषसूक्तम्

Rigveda 10.90, a Vedic hymn contemplating the cosmic Person and the unity of creation.

SanskritHinglish6 min
Dedicated toLord Vishnu
Sacred textOriginal Sanskrit

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात्।स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशाङ्गुलम् ॥१॥

पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यम्।उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥२॥

एतावानस्य महिमातो ज्यायाँश्च पूरुषः।पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥३॥

त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः।ततो विष्वङ्व्यक्रामत्साशनानशने अभि ॥४॥

तस्माद्विराळजायत विराजो अधि पूरुषः।स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥५॥

यत्पुरुषेण हविषा देवा यज्ञमतन्वत।वसन्तो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥६॥

तं यज्ञं बर्हिषि प्रौक्षन् पुरुषं जातमग्रतः।तेन देवा अयजन्त साध्या ऋषयश्च ये ॥७॥

तस्माद्यज्ञात्सर्वहुतः सम्भृतं पृषदाज्यम्।पशूँस्ताँश्चक्रे वायव्यानारण्यान् ग्राम्याश्च ये ॥८॥

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे।छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥९॥

तस्मादश्वा अजायन्त ये के चोभयादतः।गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥१०॥

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन्।मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥११॥

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः।ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥१२॥

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत।मुखादिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत ॥१३॥

नाभ्या आसीदन्तरिक्षं शीर्ष्णो द्यौः समवर्तत।पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥१४॥

सप्तास्यासन् परिधयस्त्रिः सप्त समिधः कृताः।देवा यद्यज्ञं तन्वाना अबध्नन् पुरुषं पशुम् ॥१५॥

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्।ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥१६॥

Text source

Sanskrit Wikisource — Purusha Sukta

Ancient public-domain Rigvedic text; source transcription is CC BY-SA 4.0

The sixteen-verse Rigvedic core was checked against the cited page; obvious OCR punctuation and avagraha errors were regularised.

Continue exploring

Related prayers

Shantakaram Bhujagashayanam Vishnu Shodasha Nama Stotram Vishnu Ashtavimshati Nama Stotram