Pradosha Stotrashtakam
प्रदोषस्तोत्राष्टकम्
A Skanda-tradition hymn on worshipping Shiva at twilight, when the divine assembly gathers around the dancing Lord.
सत्यं ब्रवीमि परलोकहितं ब्रवीमि सारं ब्रवीम्युपनिषद्धृदयं ब्रवीमि। संसारमुल्बणमसारमवाप्य जन्तोः सारोऽयमीश्वरपदाम्बुरुहस्य सेवा॥१॥
ये नार्चयन्ति गिरिशं समये प्रदोषे ये नार्चितं शिवमपि प्रणमन्ति चान्ये। एतत्कथां श्रुतिपुटैर्न पिबन्ति मूढास्ते जन्मजन्मसु भवन्ति नरा दरिद्राः॥२॥
ये वै प्रदोषसमये परमेश्वरस्य कुर्वन्त्यनन्यमनसोऽङ्घ्रिसरोजपूजाम्। नित्यं प्रवृद्धधनधान्यकलत्रपुत्रसौभाग्यसम्पदधिकास्त इहैव लोके॥३॥
कैलासशैलभुवने त्रिजगज्जनित्रीं गौरीं निवेश्य कनकाचितरत्नपीठे। नृत्यं विधातुमभिवाञ्छति शूलपाणौ देवाः प्रदोषसमये नु भजन्ति सर्वे॥४॥
वाग्देवी धृतवल्लकी शतमुखो वेणुं दधत्पद्मजस्तालोन्निद्रकरो रमा भगवती गेयप्रयोगान्विता। विष्णुः सान्द्रमृदङ्गवादनपटुर्देवाः समन्तात्स्थिताः सेवन्ते तमनु प्रदोषसमये देवं मृडानीपतिम्॥५॥
गन्धर्वयक्षपतगोरगसिद्धसाध्यविद्याधरामरवराप्सरसां गणांश्च। येऽन्ये त्रिलोकनिलयाः सहभूतवर्गाः प्राप्ते प्रदोषसमये हरपार्श्वसंस्थाः॥६॥
अतः प्रदोषे शिव एक एव पूज्योऽथ नान्ये हरिपद्मजाद्याः। तस्मिन्महेशे विधिनेज्यमाने सर्वे प्रसीदन्ति सुराधिनाथाः॥७॥
एष ते तनयः पूर्वजन्मनि ब्राह्मणोत्तमः। प्रतिग्रहैर्वयो निन्ये न दानाद्यैः सुकर्मभिः॥८॥
अतो दारिद्र्यमापन्नः पुत्रस्ते द्विजभामिनि। तद्दोषपरिहारार्थं शरणं यातु शङ्करम्॥९॥
Related prayers
Lingashtakam ↗Ardhanarishvara Ashtakam ↗Rudrashtakam ↗What does Pradosha Stotrashtakam mean?
The complete Sanskrit text is presented with original BhajanDhara verse-group summaries in English and Hindi; these summaries are explanatory rather than literal translations.