Stotra

Narayana Sukta

नारायण सूक्त · नारायणसूक्तम्

A Vedic meditation on Narayana as the infinite reality present within the heart and throughout the cosmos.

SanskritHinglish5 min
Dedicated toLord Vishnu
Sacred textOriginal Sanskrit

सहस्रशीर्षं देवं विश्वाक्षं विश्वशम्भुवम्।विश्वं नारायणं देवमक्षरं परमं पदम् ॥१॥

विश्वतः परमान्नित्यं विश्वं नारायणं हरिम्।विश्वमेवेदं पुरुषस्तद्विश्वमुपजीवति ॥२॥

पतिं विश्वस्यात्मेश्वरं शाश्वतं शिवमच्युतम्।नारायणं महाज्ञेयं विश्वात्मानं परायणम् ॥३॥

नारायणः परो ज्योतिरात्मा नारायणः परः।नारायणः परं ब्रह्म तत्त्वं नारायणः परः।नारायणः परो ध्याता ध्यानं नारायणः परः ॥४॥

यच्च किञ्चिज्जगत्सर्वं दृश्यते श्रूयतेऽपि वा।अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः ॥५॥

अनन्तमव्ययं कविं समुद्रेऽन्तं विश्वशम्भुवम्।पद्मकोशप्रतीकाशं हृदयं चाप्यधोमुखम् ॥६॥

अधो निष्ठ्या वितस्त्यां तु नाभ्यामुपरि तिष्ठति।ज्वालामालाकुलं भाती विश्वस्यायतनं महत् ॥७॥

सन्ततं शिलाभिस्तु लम्बत्याकोशसन्निभम्।तस्यान्ते सुषिरं सूक्ष्मं तस्मिन् सर्वं प्रतिष्ठितम् ॥८॥

तस्य मध्ये महानग्निर्विश्वार्चिर्विश्वतोमुखः।सोऽग्रभुग्विभजन् तिष्ठन्नाहारमजरः कविः ॥९॥

तिर्यगूर्ध्वमधःशायी रश्मयस्तस्य सन्तताः।सन्तापयति स्वं देहमापादतलमस्तकम् ॥१०॥

तस्य मध्ये वह्निशिखा अणीयोर्ध्वा व्यवस्थिताः।नीलतोयदमध्यस्था विद्युल्लेखेव भास्वरा ॥११॥

नीवारशूकवत्तन्वी पीता भास्वत्यणूपमा।तस्याः शिखाया मध्ये परमात्मा व्यवस्थितः।स ब्रह्मा स शिवः स हरिः सेन्द्रः सोऽक्षरः परमः स्वराट् ॥१२॥

Text source

Sanskrit Wikisource — Mahanarayana Upanishad, Narayana Anuvaka

Ancient public-domain Vedic text; source transcription is CC BY-SA

Text checked against the Narayana passage beginning sahasrashirsham devam; Vedic accent marks are omitted for accessible reading.

Continue exploring

Related prayers

Shantakaram Bhujagashayanam Vishnu Shodasha Nama Stotram Vishnu Ashtavimshati Nama Stotram