Stotra

Mahakali Stuti — Devi Mahatmya

महाकाली स्तुति — देवी माहात्म्य · महाकालीस्तुतिः

Brahma's fifteen-verse praise of the cosmic Goddess as creation, preservation, dissolution, knowledge and Mahamaya.

SanskritHinglish8 min
Dedicated toMaa Kali
Sacred textOriginal Sanskrit

विश्वेश्वरीं जगद्धात्रीं स्थितिसंहारकारिणीम्।निद्रां भगवतीं विष्णोरतुलां तेजसः प्रभुः ॥५३॥

त्वं स्वाहा त्वं स्वधा त्वं हि वषट्कारः स्वरात्मिका।सुधा त्वमक्षरे नित्ये त्रिधा मात्रात्मिका स्थिता ॥५४॥

अर्धमात्रा स्थिता नित्या यानुच्चार्या विशेषतः।त्वमेव सन्ध्या सावित्री त्वं देवि जननी परा ॥५५॥

त्वयैव धार्यते सर्वं त्वयैतत्सृज्यते जगत्।त्वयैतत्पाल्यते देवि त्वमत्स्यन्ते च सर्वदा ॥५६॥

विसृष्टौ सृष्टिरूपा त्वं स्थितिरूपा च पालने।तथा संहृतिरूपान्ते जगतोऽस्य जगन्मये ॥५७॥

महाविद्या महामाया महामेधा महास्मृतिः।महामोहा च भवती महादेवी महेश्वरी ॥५८॥

प्रकृतिस्त्वञ्च सर्वस्य गुणत्रयविभाविनी।कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणा ॥५९॥

त्वं श्रीस्त्वमीश्वरी त्वं ह्रीस्त्वं बुद्धिर्बोधलक्षणा।लज्जा पुष्टिस्तथा तुष्टिस्त्वं शान्तिः क्षान्तिरेव च ॥६०॥

खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा।शङ्खिनी चापिनी बाणभुशुण्डी परिघायुधा ॥६१॥

सौम्या सौम्यतराशेषसौम्येभ्यस्त्वतिसुन्दरी।परापराणां परमा त्वमेव परमेश्वरी ॥६२॥

यच्च किञ्चित्क्वचिद्वस्तु सदसद्वाखिलात्मिके।तस्य सर्वस्य या शक्तिः सा त्वं किं स्तूयते तदा ॥६३॥

यया त्वया जगत्स्रष्टा जगत्पात्यत्ति यो जगत्।सोऽपि निद्रावशं नीतः कस्त्वां स्तोतुमिहेश्वरः ॥६४॥

विष्णुः शरीरग्रहणमहमीशान एव च।कारितास्ते यतोऽतस्त्वां कः स्तोतुं शक्तिमान् भवेत् ॥६५॥

सा त्वमित्थं प्रभावैः स्वैरुदारैर्देवि संस्तुता।मोहयैतौ दुराधर्षावसुरौ मधुकैटभौ ॥६६॥

प्रबोधञ्च जगत्स्वामी नीयतामच्युतो लघु।बोधश्च क्रियतामस्य हन्तुमेतौ महासुरौ ॥६७॥

Text source

Sanskrit Wikisource — Markandeya Purana, chapter 81

Ancient public-domain scripture; cited Wikisource transcription is CC BY-SA

Verses 53–67 are included as the complete Brahma-stuti in this chapter.

Continue exploring

Related prayers

Kakaradi Kali Shatanama Stotram