श्रीकार्तिकेयाष्टकम्
Kartikeya Ashtakam
Eight verses praising Kartikeya's courage, wisdom, renunciation and protection of devotees.
समर्पितभगवान कार्तिकेयनमोऽस्तु वृन्दारकवृन्दवन्द्यपादारविन्दाय सुधाकराय।षडाननायामितविक्रमाय गौरीहृदानन्दसमुद्भवाय ॥ १॥
नमोऽस्तु तुभ्यं प्रणतार्तिहन्त्रे कर्त्रे समस्तस्य मनोरथानाम्।दात्रे रथानां परतारकस्य हन्त्रे प्रचण्डासुरतारकस्य ॥ २॥
अमूर्तमूर्ताय सहस्रमूर्तये गुणाय गण्याय परात्पराय।अपारपाराय परापराय नमोऽस्तु तुभ्यं शिखिवाहनाय ॥ ३॥
नमोऽस्तु ते ब्रह्मविदां वराय दिगम्बरायाम्बरसंस्थिताय।हिरण्यवर्णाय हिरण्यबाहवे नमो हिरण्याय हिरण्यरेतसे ॥ ४॥
तपःस्वरूपाय तपोधनाय तपःफलानां प्रतिपादकाय।सदा कुमाराय हि मारमारिणे तृणीकृतैश्वर्यविरागिणे नमः ॥ ५॥
नमोऽस्तु तुभ्यं शरजन्मने विभो प्रभातसूर्यारुणदन्तपङ्क्तये।बालाय चाबालपराक्रमाय षाण्मातुरायालमनातुराय ॥ ६॥
मीढुष्टमायोत्तरमीढुषे नमो नमो गणानां पतये गणाय।नमोऽस्तु ते जन्मजरातिगाय नमो विशाखाय सुशक्तिपाणये ॥ ७॥
सर्वस्य नाथस्य कुमारकाय क्रौञ्चारये तारकमारकाय।स्वाहेय गाङ्गेय च कार्तिकेय शैवेय तुभ्यं सततं नमोऽस्तु ॥ ८॥