Stotra
गङ्गा ध्यान
Ganga Dhyana
A visualization of the eternal, compassionate and radiant form of Maa Ganga.
समर्पितमाँ गंगाशुक्लाम्बरां शुक्लवर्णां मुक्तामणिविभूषिताम्।चतुर्भुजां त्रिनेत्रां च करुणामृतवर्षिणीम् ॥
रत्नकुम्भं सिताम्भोजं वरदाभयशोभिताम्।श्वेतच्छत्रोपशोभाढ्यां ध्यायेद् गङ्गां सनातनीम् ॥