Stotra

Vanara Gita

वानर गीता · श्रीवानरगीता

The complete 33-verse central hymn of the Vanara Gita, with each voice offering a different meditation on Hanuman's service, courage and refuge.

SanskritHinglish18 min
Dedicated toLord Hanuman
Sacred textOriginal Sanskrit

सुवर्णशैलस्य गवाञ्चकोटिशतस्य कोटेश्च शतस्य यच्च। दानस्य नैवास्ति समं फलञ्च ध्रुवञ्च तन्मारुतिदर्शनेन॥०१॥

हनुमन्निति मे स्नानं हनुमन्निति मे जपः। हनुमन्निति मे ध्यानं हनुमत्कीर्तनं सदा॥०२॥

रामभक्तचरिताकथामृतं वायुतनयगुणानुकीर्तनम्। रामदास तव पादसेवनं सम्भवन्तु मम जन्मजन्मनि॥०३॥

माता सुवर्चला देवी पिता मे वायुनन्दनः। बान्धवा हनुमद्भक्ताः स्वदेशो भुवनत्रयम्॥०४॥

भक्तकल्पतरुं सौम्यं लोकोत्तरगुणाकरम्। सुवर्चलापतिं वन्दे मारुतिं वरदं सदा॥०५॥

वायुपुत्रेण महता यद्यदुक्तं करोमि तत्। न जानामि ततो धर्मं मद्धर्मं रक्ष मां सदा॥०६॥

समीरसूते सततं त्वदाज्ञया त्वदंशकः प्रेरितमानसेन्द्रियः। करोम्यहं यच्च शुभाशुभं प्रभो त्वत्प्रीतये मत्कृतमस्तु तत्सदा॥०७॥

रामादीनां रणे ख्यातिं दातुं यो रावणादिकान्। नावधीत् स्वयमेवैकस्तं वन्दे हनुमत्प्रभुम्॥०८॥

भौमस्य वासरे पूजा कर्तव्या हनुमत्प्रभोः। भवेत्स शुचिरायुश्श्रीःपुत्रमित्रकलत्रवान् ॥०९॥

आमिषीकृतमार्ताण्डं गोष्पदीकृतसागरम्। तृणीकृतदशग्रीवमाञ्जनेयं नमाम्यहम्॥१०॥

उल्लङ्घ्य सिन्धोस्सलिलं सलीलं यः शोकवह्निं जनकात्मजायाः। आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम्॥११॥

नमाम्यहं वायुजपादपङ्कजं करोमि तद्वायुजपूजनं सदा। वदामि वातात्मजनाममङ्गलं स्मरामि वायोर्भवकीर्तनं शुभम्॥१२॥

सप्तषष्टिर्हतान्कोटिवानराणां तरस्विनाम्। यस्सञ्जीवनयामास तं वन्दे मारुतात्मजम्॥१३॥

तनौ बालपाशः पिता पार्वतीशस्स्फुरद्बाहुदण्डौ मुखे वज्रदंष्ट्रा। सती चाञ्जना यस्य माता ततोऽन्यं न जाने न जाने न जाने न जाने॥१४॥

बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता। अजाड्यं वाक्पटुत्वञ्च हनुमत्स्मरणाद्भवेत्॥१५॥

सीताशोकस्य नाशाय श्रीरामे शोकनाशनम्। साधकानां सुखं धन्यं वायुसूनुं नमाम्यहम्॥१६॥

अञ्जनावरपुत्राय रामेष्टाय हनूमते। सर्वलोकैकवीराय भविष्यद्ब्रह्मणे नमः॥१७॥

हनुमत्सदृशं दैवं नास्ति नास्तीति भूतले। तं पूजयन्ति सततं ब्रह्मगौरीमहेश्वराः॥१८॥

आलोड्य वेदशास्त्राणि सर्वाण्यपि महर्षिभिः। इदमेकं सुनिर्णीतं न दैवं हनुमत्परम्॥१९॥

मङ्गलं हनुमन्नित्यं मङ्गलं कपिपुङ्गव। मङ्गलं चाञ्जनासूनो मङ्गलं राघवप्रिय॥२०॥

करुणारसपूर्णाय जगदानन्दहेतवे। कुक्षिस्थाखिललोकाय हनुमद्ब्रह्मणे नमः॥२१॥

दाता दापयिता चैव लोकानां रक्षकस्तथा। प्रेरकश्चानुमन्ता च कर्ता भोक्ता कपीश्वरः॥२२॥

भुक्तिमुक्तिप्रदं नाम विहाय हनुमन्तव। संसरन्ति जना मूढाः किं विचित्रमतः परम्॥२३॥

मत्प्रार्थनाफलमिदं मम जन्मनश्च नेच्छामि किञ्चिदपरं हनुमन्महात्मन्। त्वद्दासदासजनपादरजोनिकेतमस्मद्धितम्भवतु सेवकपारिजात॥२४॥

रसने रससारज्ञे मधुरास्वादकाङ्क्षिणि। हनुमन्नामपीयूषं सर्वदा रसने पिब॥२५॥

कुतो दुर्दिनं वा कुतो भौमवारः कुतो वैधृतिस्तस्य भद्रा कथं वा। कुतो वा व्यतीपातदोषक्षुतं वा हनूमत्पदध्यानवीताशुभस्य॥२६॥

त्रातारो भुवि पादाश्च मार्गाश्च रसने त्वया। हनुमन्निर्मितास्सन्ति जनानां हीनता कुतः॥२७॥

धन्योऽस्म्यनुगृहीतोऽस्मि पुण्योऽस्मि महतोऽस्म्यहम्। हनुमत्त्वत्पदाम्भोजसेवाविभवयोगतः॥२८॥

त्वत्तोऽन्यः शरणं नास्ति त्वमेव मम रक्षकः। अतो मयि कृपादृष्ट्या हनुमन्रक्ष मां सदा॥२९॥

सदा पापौघनिष्ठ्यूतं पापेषु हृष्टमानसम्। पापात्मानं महापापं रक्ष मां हनुमत्प्रभो॥३०॥

हनुमदाज्ञया यच्च भावि तद्भवति ध्रुवम्। यदभावि न तद्भावि वृथा देहपरिश्रमः॥३१॥

अपराधशतं नित्यं कुर्वाणं मां नृशंसकम्। क्षमस्व दासबुद्ध्या त्वं हनुमन्करुणानिधे॥३२॥

हनुमतो न परं परमार्थतो हनुमतो न परं परमार्थतः। इति वदामि जनान् परमार्थतो न हि परं भवितात्र विचक्षणः॥३३॥

Continue exploring

Related prayers

Manojavam Maruta Tulya Vegam Hanumat Pancharatnam Anjaneya Dwadasha Nama Stotram