Shri Rama Ashtottara Shatanama Stotra
श्रीरामाष्टोत्तरशतनामस्तोत्रम्
A traditional hymn praising Rama through 108 names and attributes.
Dedicated toLord Ramaश्रीरामो रामभद्रश्च रामचन्द्रश्च शाश्वतः।राजीवलोचनः श्रीमान् राजेन्द्रो रघुपुङ्गवः ॥१॥
जानकीवल्लभो जैत्रो जितामित्रो जनार्दनः।विश्वामित्रप्रियो दान्तः शत्रुजिच्छत्रुतापनः ॥२॥
वालिप्रमथनो वाग्मी सत्यवाक् सत्यविक्रमः।सत्यव्रतो व्रतधरः सदा हनुमदाश्रितः ॥३॥
कौसलेयः खरध्वंसी विराधवधपण्डितः।विभीषणपरित्राता हरकोदण्डखण्डनः ॥४॥
सप्ततालप्रभेत्ता च दशग्रीवशिरोहरः।जामदग्न्यमहादर्पदलनस्ताटकान्तकः ॥५॥
वेदान्तसारो वेदात्मा भवरोगस्य भेषजम्।दूषणत्रिशिरोहन्ता त्रिमूर्तिस्त्रिगुणात्मकः ॥६॥
त्रिविक्रमस्त्रिलोकात्मा पुण्यचारित्रकीर्तनः।त्रिलोकरक्षको धन्वी दण्डकारण्यपावनः ॥७॥
अहल्याशापशमनः पितृभक्तो वरप्रदः।जितेन्द्रियो जितक्रोधो जितामित्रो जगद्गुरुः ॥८॥
ऋक्षवानरसंघाती चित्रकूटसमाश्रयः।जयन्तत्राणवरदः सुमित्रापुत्रसेवितः ॥९॥
सर्वदेवादिदेवश्च मृतवानरजीवनः।मायामारीचहन्ता च महादेवो महाभुजः ॥१०॥
सर्वदेवस्तुतः सौम्यो ब्रह्मण्यो मुनिसंस्तुतः।महायोगी महोदारः सुग्रीवेप्सितराज्यदः ॥११॥
सर्वपुण्याधिकफलः स्मृतसर्वाघनाशनः।आदिदेवो महादेवो महापूरुष एव च ॥१२॥
पुण्योदयो दयासारः पुराणपुरुषोत्तमः।स्मितवक्त्रो मिताभाषी पूर्वभाषी च राघवः ॥१३॥
अनन्तगुणगम्भीरो धीरोदात्तगुणोत्तमः।मायामानुषचारित्रो महादेवादिपूजितः ॥१४॥
सेतुकृज्जितवारीशः सर्वतीर्थमयो हरिः।श्यामाङ्गः सुन्दरः शूरः पीतवासा धनुर्धरः ॥१५॥
सर्वयज्ञाधिपो यज्वा जरामरणवर्जितः।शिवलिङ्गप्रतिष्ठाता सर्वावगुणवर्जितः ॥१६॥
परमात्मा परं ब्रह्म सच्चिदानन्दविग्रहः।परं ज्योतिः परं धाम पराकाशः परात्परः ॥१७॥
परेशः पारगः पारः सर्वदेवात्मकः परः ॥
Sanskrit Wikisource — Shri Rama Ashtottara Shatanama Stotra
Underlying traditional work is public domain; source page text is CC BY-SA