Shani Vajrapanjara Kavacham
शनि वज्रपञ्जर कवचम् · शनिवज्रपञ्जरकवचम्
Five public protective verses invoking Shani's names across the body in the traditional kavach form.
Dedicated toShani Devॐ श्रीशनैश्चरः पातु भालं मे सूर्यनन्दनः।नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥१॥
नासां वैवस्वतः पातु मुखं मे भास्करः सदा।स्निग्धकण्ठश्च मे कण्ठं भुजौ पातु महाभुजः ॥२॥
स्कन्धौ पातु शनिश्चैव करौ पातु शुभप्रदः।वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥३॥
नाभिं ग्रहपतिः पातु मन्दः पातु कटिं तथा।ऊरू ममान्तकः पातु यमो जानुयुगं तथा ॥४॥
पादौ मन्दगतिः पातु सर्वाङ्गं पातु पिप्पलः।अङ्गोपाङ्गानि सर्वाणि रक्षेन्मे सूर्यनन्दनः ॥५॥
Traditional Shani Vajrapanjara Kavacham — independently prepared text
Traditional public-domain hymn; linked transcription used for textual comparison
Only the five public kavach verses are included. Introductory visualization and traditional benefit claims are omitted.