Stotra
Radha Stotram
राधास्तोत्रम्
The Narada Purana praises Radha as Krishna's beloved, universal mother and giver of devotion.
Dedicated toRadha Raniराधा कृष्णप्रिया रासेश्वरी गोपीगणाधिपा।निर्गुणा कृष्णपूज्या च मूलप्रकृतिरीश्वरी ॥ १॥
सर्वेश्वरी सर्वपूज्या वैराजजननी तथा।पूर्वाद्याशासु रक्षन्तु पान्तु मां सर्वतः सदा ॥ २॥
त्वं देवि जगतां माता विष्णुमाया सनातनी।कृष्णमायादिदेवी च कृष्णप्राणाधिके शुभे ॥ ३॥
कृष्णभक्तिप्रदे राधे नमस्ते मङ्गलप्रदे।इति सम्प्रार्थ्य सर्वेशीं स्तुत्वा हृदि विसर्जयेत् ॥ ४॥
एवं यो भजते राधां सर्वाद्यां सर्वमङ्गलाम्।भुक्त्वेह भोगानखिलान्सोऽन्ते गोलोकमाप्नुयात् ॥ ५॥