Ashtakam

Kalika Ashtakam

कालिकाष्टकम्

Eight verses contemplating Kali as primordial power, consciousness, Yogamaya and a reality beyond complete description.

SanskritHinglish6 min
Dedicated toMaa Kali
Sacred textOriginal Sanskrit

विरञ्च्यादिदेवास्त्रयस्ते गुणास्त्रीन् समाराध्य कालीं प्रधाना बभूवुः।अनादिं सुरादिं मखादिं भवादिं स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥१॥

जगन्मोहिनीयं तु वाग्वादिनीयं सुहृत्पोषिणी शत्रुसंहारणीयम्।वचस्तम्भनीयं किमुच्चाटनीयं स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥२॥

इयं स्वर्गदात्री पुनः कल्पवल्ली मनोजास्तु कामान् यथार्थं प्रकुर्यात्।तथा ते कृतार्था भवन्तीति नित्यं स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥३॥

सुरापानमत्ता सुभक्तानुरक्ता लसत्पूतचित्ते सदाविर्भवत्ते।जपध्यानपूजासुधाधौतपङ्का स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥४॥

चिदानन्दकन्दं हसन्मन्दमन्दं शरच्चन्द्रकोटिप्रभापुञ्जबिम्बम्।मुनीनां कवीनां हृदि द्योतयन्तं स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥५॥

महामेघकाली सुरक्तापि शुभ्रा कदाचिद्विचित्राकृतिर्योगमाया।न बाला न वृद्धा न कामातुरापि स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥६॥

क्षमस्वापराधं महागुप्तभावं मया लोकमध्ये प्रकाशीकृतं यत्।तव ध्यानपूतेन चापल्यभावात् स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥७॥

यदि ध्यानयुक्तं पठेद्यो मनुष्यस्तदा सर्वलोके विशालो भवेच्च।गृहे चाष्टसिद्धिर्मृते चापि मुक्तिः स्वरूपं त्वदीयं न विन्दन्ति देवाः ॥८॥

Text source

Traditional Kalika Ashtakam — independently prepared public-domain text

Traditional public-domain hymn; linked transcription used only for textual comparison

The eight stuti verses are included without the three preliminary visualization verses. Attribution is traditional; benefit language is not presented as a factual promise.