Ashtakam

Ganga Ashtakam

श्रीगङ्गाष्टकम्

An ancient hymn praising Ganga's descent, purity and power to carry devotees beyond fear and sorrow.

Hindi3 min
Dedicated toMaa Ganga
Sacred textOriginal Hindi

भगवति तव तीरे नीरमात्राशनोऽहंविगतविषयतृष्णः कृष्णमाराधयामि।सकलकलुषभङ्गे स्वर्गसोपानगङ्गेतरलतरतरङ्गे देवि गङ्गे प्रसीद ॥ १॥

भगवति भवलीलामौलिमाले तवाम्भःकणमणुपरिमाणं प्राणिनो ये स्पृशन्ति।अमरनगरनारीचामरमरग्राहिणीनांविगतकलिकलङ्कातङ्कमङ्के लुठन्ति ॥ २॥

ब्रह्माण्डं खण्डयन्ती हरशिरसि जटावल्लिमुल्लासयन्तीस्वर्लोकादापतन्ती कनकगिरिगुहागण्डशैलात्स्खलन्ती।क्षोणीपृष्ठे लुठन्ती दुरितचयचमूर्निर्भरं भर्त्सयन्तीपाथोधिं पूरयन्ती सुरनगरसरित्पावनी नः पुनातु ॥ ३॥

मज्जन्मातङ्गकुम्भच्युतमदमदिरामोदमत्तालिजालंस्नानैः सिद्धाङ्गनानां कुचयुगविगलत्कुङ्कुमासङ्गपिङ्गम्।सायंप्रातर्मुनीनां कुशकुसुमचयैश्छन्नतीरस्थनीरंपायान्नो गाङ्गमम्भः करिकलभकराक्रान्तरंहस्तरङ्गम् ॥ ४॥

आदावादिपितामहस्य नियमव्यापारपात्रे जलंपश्चात्पन्नगशायिनो भगवतः पादोदकं पावनम्।भूयः शम्भुजटाविभूषणमणिर्जह्नोर्महर्षेरियंकन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥ ५॥

शैलेन्द्रादवतारिणी निजजले मज्जज्जनोत्तारिणीपारावारविहारिणी भवभयश्रेणीसमुत्सारिणी।शेषाहेरनुकारिणी हरशिरोवल्लीदलाकारिणीकाशीप्रान्तविहारिणी विजयते गङ्गा मनोहारिणी ॥ ६॥

कुतो वीचिर्वीचिस्तव यदि गता लोचनपथंत्वमापीता पीताम्बरपुरनिवासं वितरसि।त्वदुत्सङ्गे गङ्गे पतति यदि कायस्तनुभृतांतदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ॥ ७॥

गङ्गे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोयेपूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे।प्रायश्चित्तं यदि स्यात्तव जलकणिका ब्रह्महत्यादिपापेकस्त्वां स्तोतुं समर्थस्त्रिजगदघहरे देवि गङ्गे प्रसीद ॥ ८॥

मातर्जाह्नवी शम्भुसङ्गमिलिते मौलौ निधायाञ्जलिंत्वत्तीरे वपुषोऽवसानसमये नारायणाङ्घ्रिद्वयम्।सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवेभूयाद्भक्तिरविच्युता हरिहराद्वैतात्मिका शाश्वती ॥ ९॥

गङ्गाष्टकमिदं पुण्यं यः पठेत्प्रयतो नरः।सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ १०॥