Stotra

Ganesha Pancharatnam

गणेश पञ्चरत्नम् · गणेशपञ्चरत्नम्

Five celebrated verses in praise of Ganesha, traditionally attributed to Adi Shankaracharya.

SanskritPronunciationOptional meaning5 min
Dedicated toLord Ganesha
Sacred textOriginal Sanskrit

मुदाकरात्तमोदकं सदा विमुक्तिसाधकं कलाधरावतंसकं विलासलोकरक्षकम्।अनायकैकनायकं विनाशितेभदैत्यकं नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥

नतेतरातिभीकरं नवोदितार्कभास्वरं नमत्सुरारिनिर्जरं नताधिकापदुद्धरम्।सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥

समस्तलोकशङ्करं निरस्तदैत्यकुञ्जरं दरेतरोदरं वरं वरेभवक्त्रमक्षरम्।कृपाकरं क्षमाकरं मुदाकरं यशस्करं मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥

अकिञ्चनार्तिमार्जनं चिरन्तनोक्तिभाजनं पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम्।प्रपञ्चनाशभीषणं धनञ्जयादिभूषणं कपोलदानवारणं भजे पुराणवारणम् ॥४॥

नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजमचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम्।हृदन्तरे निरन्तरं वसन्तमेव योगिनां तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥

महागणेशपञ्चरत्नमादरेण योऽन्वहं प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम्।अरोगतामदोषतां सुसाहितीं सुपुत्रतां समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥

Continue exploring

Related prayers

Sankata Nashana Ganesha Stotram ↗Ganapati Atharvashirsha ↗Ganesha Bhujangam ↗
Meaning & context

What does Ganesha Pancharatnam mean?

A compact hymn praising Ganesha as remover of obstacles, protector and source of auspiciousness.